________________
१४०
आचाराङ्ग सूत्रम् १/-/२/५/९०
" इत्यादि । 'अयंसन्धीत्यारभ्य काले अनुट्ठाइ' त्ति यावदेतेभ्यः सूत्रेभ्य एकादश पिण्डैषणा निर्यूढा इति । एवं तर्ह्यप्रतिज्ञ इत्यनेन सूत्रेणेदमापन्नं - न क्वचत्केनचित्प्रतिज्ञा विधेया, प्रतिपादिताश्चागमे नानाविधा अभिग्रहविशेषाः, ततश्च पूर्वोत्तरव्याहतिरिव लक्ष्यत इत्यत आहमू. (९१) दुहओ छेत्ता नियाइ, वत्थं पडिग्गहं कंबलं पायपुंछणं उग्गहणं च कडासणं एएस चेव जाणिज्जा ।
वृ. 'द्विधे 'ति रागेण द्वेषेण वा या प्रतिज्ञा तां छित्त्वा निश्चयेन नियतं वा याति नियाति ज्ञानदर्शनचारित्राख्ये मोक्षमार्गे संयमानुष्ठाने वा भिक्षाद्यर्थं वा, एतदुक्तं भवति-रागद्वेषौ छित्त्वाप्रतिज्ञा गुणवती, व्यत्यये व्यत्ययइति, स एवम्भूतो भिक्षुः कालज्ञो बलज्ञोयावद्विधाछिन्दन्किं कुर्यादित्याह'वत्थं पडिग्गनं त्यादि यावत् एएसु चेव जाणेज्जा' एतेषु पुत्राद्यर्थमारम्भप्रवृत्तेषु सन्निधिसन्निचयकरणोद्यतेषु जानीयात्-शुद्धाशुद्धतया परिच्छिन्द्यात्, परिच्छेदश्चैवमात्मकः - शुद्ध गृह्णीयादशुद्धं परिहरेदितियातव, किं तद्विजानीयात् ? - वस्त्रं वस्त्रग्रहणेन वस्त्रैषणा सूचिता, तथा पतद्ग्रहंपात्रम्, एतद्ग्रहणेन च पात्रैषणा सूचिता, कम्बलमित्यनेनाऽऽविकः पात्रनिर्योगः कल्पश्च गृह्यते, पादपुञ्छनकमित्यनेन च रजोहरणमिति, एभिश्च सूत्रैरोघोपधिरौपग्रहिकश्च सूचितः, तथैतेभ्य एव वस्त्रैषणा पात्रैषणा च निर्यूढा,
तथा अवगृह्यत इत्यवग्रहः, स च पञ्चधा - देवेन्द्रावग्रहः १ राजावग्रहः २ गृहपत्यवग्रहः ३ शय्यातरावग्रहः ४ साधर्मिकावग्रहश्चेति, अनेन चावग्रहप्रतिमाः सर्वाः सूचिताः, अत एवासौ निर्यूढा, अवग्रहकल्पिकश्चास्मिन्नेव सूत्रे कल्प्यते, तथा कटासनं, कटग्रहणेन संस्तारो गृह्यते, आसनहग्रहणेन चासन्दकादिविष्टरमिति, आस्यते - स्थीयते अस्मिन्निति वाऽऽसनं शय्या, ततश्च आसनग्रहणेन शय्या सूचिता, अत एव निव्यूढेति । एतानि च सर्वाण्यपि वस्त्रादीन्याहारादीनि चैतेषु स्वारम्भप्रवृत्तेषु गृहस्थेषु जानीयात्, सर्वामगन्धं परिज्ञाय निरामगन्धो यथा भवति तथा परिव्रजेरिति भावार्थः । एतेषु च स्वारम्भप्रवृत्तेषु गृहस्थेषु परिव्रजन् यावल्लाभं गृह्णीयादुत कश्चिन्नियमो ऽप्यस्तीत्याह
मू. (९२) लद्धे आहारे अनगारो मायं जाणिज्जा, से जहेयं भगवया पवेईयं, लाभुत्ति न मज्जिज्जा, अलाभुत्ति न सोइज्जा, बहुपि लद्धुं न निहे, परिग्गहाओ अप्पाणं अवसक्किना ।
बृ. 'लब्धे' प्राप्ते सत्याहारे, आहारग्रहणं चोपलक्षणार्थम् अन्यस्मिन्नपि वस्त्रौषधादिके 'अनगारः' भिक्षुः 'मात्रां जानीयात्' यावन्मात्रेण गृहीतेन गृहस्थः पुनरारम्भे न प्रवर्त्तते यावन्मात्रेण चात्मनो विवक्षितकार्यनिष्पत्तिर्भवति तथा भूतां मात्रामवगच्छेदिति भावः, एतच्च स्वमनीषिकया नोच्यत इत्यत आह- 'से जहेयं' इत्यादि, तद्यथा - इदमुद्देशकादेरारभ्यानन्तरसूत्रं यावद्भगवताऐश्वर्यादिगुणसमन्वितेनार्द्धमागधया भाषया सर्वस्वभाषानुगतया सदेवमनुजायां परिषदि केवलज्ञानचक्षुषाऽवलोक्य 'प्रवेदितं ' प्रतिपादितं सुधर्मास्वामी जम्बूस्वामिने इदमाचष्टे । किं चान्यत्-‘लाभो’त्ति इत्यादि, लाभो वस्त्राहारादेर्मम संवृत्त इत्यतोऽहो ! अहं लब्धिमानित्येवं मदं न विदध्यात्, न च तदभावे शोकाभिभूतो विमनस्को भूयादिति, आह च- 'अलाभो' त्ति इत्यादि, अलाभे सति शोकं न कुर्यात्, कथं ? - धिग्मां मन्दभाग्योऽहं येन सर्वदानाद्यतादपि दातुर्न लभेऽहमिति, अपि तु तयोर्लाभालाभयोर्माध्यस्थ्यं भावनीयमिति, उक्तं च
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org