________________
श्रुतस्कन्धः - १, अध्ययनं - २, उद्देशक: ५
१३९
मूलकर्म्मपिण्डश्चेति १६ । तथा दशैषणादोषाः, ते चामी - शङ्कित १ प्रक्षित २ निक्षिप्त ३ पिहित ४ संहृत ५ दायको ६ न्मिश्रा ७ परिणत ८ लिप्तो ९ ज्झित १० दोषाः । एषां चोद्गमदोषा दातृकृता एव भवन्ति, उत्पादनादोषास्तु साधुजनिताः, एषणादोषाश्चोभयोत्पादिता इति । तथा परसमयज्ञो ग्रीष्ममध्याह्नतीव्रतरतरणिक-रनिकरावलीढगलत्स्वेदबिन्दुकः क्लिन्नवपुष्कः साधुः केनचिद् धिग्जातिदेश्येनाभिहितः किमिति भवतां सर्वजनाचीर्णं स्नानं न सम्मतमिति ?, स आह-प्रायः सर्वेषामेव यतीनां कामाङ्गत्वाज्जलस्नानं प्रतिषिद्धं, तथा चार्षम् - “स्नानं मददर्प्पकरं, कामाङ्गं प्रथमं स्मृतम् । तस्मात्कामं परित्यज्य, नैव स्नान्ति दमे रताः ॥”
11911
इत्यादि, तदेवमुभयज्ञस्तद्विषये प्रश्ने उत्तरदानकुशलो भवति, तथा 'भावन्ने' भावःचित्ताभिप्रायो दातुः श्रोतुर्वा तं जानातीति भावज्ञः, किं च - 'परिग्गहं अममायमाणे' परिगृह्यत इति परिग्रहः-संयमातिरिक्तमुपकरणादिः तमममीकुर्वन् - अस्वीकुर्वन् मनसाऽप्यनाददान इतियावत्, स एवंविधो भिक्षुः कालज्ञो बलज्ञो मात्रज्ञः क्षेत्रज्ञः खेदज्ञो क्षणज्ञः विनयज्ञः समयज्ञो भावज्ञः परिग्रहमममीकुर्वाणश्च किंभूतो भवतीत्याह - 'कालानुट्ठाई' यद्यस्मिन् काले कर्त्तव्यं तत्तस्मिन्नेवानुष्ठातुं शीलमस्येति कालानुष्ठायी - कालानतिपातकर्त्तव्योद्यतो, ननु चास्यार्थस्य 'से भिक्खू कालन्ने' इत्यनेनैव गतार्थत्वात् किमर्थं पुनरभिधीयते इति ?, नैष दोषः, तत्र हि ज्ञपरिज्ञैव केवलाऽभिहिता, कर्त्तव्यकालं जानाति, इह पुनरासेवनापरिज्ञा कर्त्तव्यकाले कार्यं विधत्त इति ।
किंच- 'अपडिण्णे' नास्य प्रतिज्ञा विद्यते इत्यप्रतिज्ञः, प्रतिज्ञा च कषायोदयादाविरस्ति, तद्यथा-क्रोधोदयात् स्कन्दाचार्येण स्वशिष्ययन्त्रपीलनव्यतिकरमालोक्य सबलवाहनराजधानीसमन्वितपुरोहितोपरि विनाशप्रतिज्ञाऽकारि, तथा मानोदयात् बाहुबलिना प्रतिज्ञा व्यधायि-कथमहं शिशून् स्वभ्रातॄनुत्पन्ननिरावरणज्ञानांश्छद्मस्थः सन्द्रक्ष्यामीति ?, तथा मायोदयात् मल्लिस्वामिजीवेन यथाऽपरयतिविप्रलम्भनं भवति तथा प्रत्याख्यानपरिज्ञा जगृहे, तथा लोभोदयाच्चाविदितपरमार्थाः साम्प्रतेक्षिणो यत्याभासा मासक्षपणादिका अपि प्रतिज्ञाः कुर्वते, अथवा अप्रतिज्ञः- अनिदानों वसुदेववत् संयमानुष्ठानं कुर्वन् निदानं न करोतीति, अथवा गोचरादौ प्रविष्टः सन्नाहारादिकं ममैवैतद्मविष्यतीत्येवं प्रतिज्ञां न करोतीत्यप्रतिज्ञो, यदिवा स्याद्वादप्रधानत्वान्म- नीन्द्रगमस्यैकपक्षावधारणं प्रतिज्ञा तद्रहितोऽप्रतिज्ञः, तथाहि - मैथुनविषयं विहायान्यत्र न क्वचिन्नियमवती प्रतिज्ञा विधेया, यत उक्तम्
11911
"न य किंचि अनुन्नायं पडिसिद्धं वावि जिणवरिदेहिं । मोत्तुं मेहुणभावं न तं विणा रागदोसेहिं
(तथा) 'दोसा जेण निरुज्झंति जेण जिज्झंति पुव्वकम्माई । सो सो मुक्खोवाओ, रोगावत्थासु समणं व जे जत्तिया उ हेउ भवस्स ते चेव तत्तिया मुक्खे । गणणाइया लोया दुहवि पुन्ना भवे तुल्ला
For Private & Personal Use Only
॥२॥
॥३॥
Jain Education International
www.jainelibrary.org