SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ १३६ आचाराङ्ग सूत्रम् १/-/२/५/८८ अध्ययनं-२ उद्देशकः५:वृ.उक्तश्चतुर्थोद्देशकः, साम्प्रतं पञ्चमस्य व्याख्या प्रतन्यते, तस्य चायमभिसम्बन्धः, इह भोगान् परित्यज्य लोकनिश्रया संयमदेहप्रतिपालनार्थं विहर्त्तव्यमित्युक्तं तदत्र प्रतिपाद्यते, इह हि संसारोद्वेगवता परित्यकभोगाभिलाषेण मुमुक्षुणोत्क्षिप्तपञ्चमहाव्रतभारेण निरवद्यानुष्ठानविधायिना दीर्घसंयमयात्रार्थं देहपरिपालनाय लोकनिश्रया विहर्त्तव्यं, निराश्रयस्य हि कुतो देहसाधनानि?, तदभावे धर्मश्चेति, उक्तं हि॥१॥ “धर्मंचरतः साधोर्लोके निश्रावदानि पञ्चापि । राजा गृहपतिरपरः षटकाया गणशरीरे च" साधनानि च वस्त्रपात्रान्नासनशयनादीनि, तत्रापि प्रायः प्रतिदिनमुपयोगित्वादाहारो गरीयानिति, सचलोकादन्वेष्टव्यो, लोकश्चनानाविधैरुपायैरात्मीयपुत्रकलत्राद्यर्थंआरम्भेप्रवृत्तः, तत्र साधुना संयमदेहनिमित्तं वृत्तिरन्वेषणीयेति दर्शयति मू. (८८) जमिणं विरूवरूवेहिं सत्थेहिं लोगस्स कम्मसमारंभा कजंति, तंजहा-अप्पणो से पुत्ताणंधूयाणंसुण्हाणं नाईणंधाईणं राईणंदासाणंदासीणं कम्मकराणं कम्मकरीणं आएसाए पुढोपहेणाए सामासाए पायरासाए, संनिहिसंनिचओ कज्जइ, इहमेगेसिं माणवाणं भोयणाए। वृ. 'यैः' अविदितवेद्यैः ‘इद'मिति सुखदुःखप्राप्तिपरिहारत्वमुद्दिश्य 'विरूपरूपैः' नानाप्रकारस्वरूपैः शस्त्रैः' प्राण्युपधातकारिभिर्द्रव्यभावभेदभिन्नैः ‘लोकाय' शरीरपुत्रदुहितृस्नुषाज्ञात्याद्यर्थं कर्मणां-सुखदुःखप्राष्ठिपरिहारक्रियाणां कायिकाधिकरणिकाप्रादोषिकापारितापनिकाप्राणातिपातरूपाणां कृषिवाणिज्यादिरूपाणांवा, समारम्मइतिमध्यग्रहणाबहुवचननिर्देशाच्च संरम्भारम्भयोरप्युपादानं, तेनायमर्थः-शरीरकलत्राद्यर्थसंरम्भसमारम्भारम्भाः क्रियन्ते' अनुष्ठीयन्ते, तत्र संरम्भ इष्टानिष्टप्राप्तिपरिहाराय प्राणातिपातादिसङ्कल्पावेशः, तत्साधनसन्निपातकायवाग्व्यापारजनितपरितापनादिलक्षणः समारम्भः, दण्डत्रयव्यापारापादितचिकीर्षितप्राणातिपातादिक्रियानिवृत्तिरारम्भः, कर्मणोवा-अष्टप्रकारस्यसमारम्भा-उपार्जनोपायाः क्रियन्त इति, लोकस्येति चतुथ्यर्थेषष्ठी, साऽपितादर्थ्य, कः पुनरसौ लोको? यदर्थं संरम्भसमारम्भारम्भाः क्रियन्तइत्याह __ "तंजहाअप्पणो से' इत्यादि, यदिवा लोकस्य तृतीयार्थे षष्ठी, यदिति हेतौ, यस्माल्लोकेन नानाविधैः शस्त्रैः कर्मसमारम्भाः क्रियन्त इत्यतस्तस्मिन् लोके साधुवृत्तिमन्वेषयेत्, यदर्थं च लोकेन कर्मसमारम्भाः क्रियन्ते तद्यथेत्यादिना दर्शयति-तंजहा अप्पणो से' इत्यादि, 'तद्यथे' त्युपप्रदर्शनार्थो, नोक्तमात्रमेवान्यदप्येवंजातीयकंमित्रादिकंद्रष्टव्यं, 'से' तस्यारम्भारिप्सोर्य आत्मा-शरीरं तस्मै अर्थं तदर्थं कर्मसमारम्भाः-पाकादयः क्रियन्ते, ननु च लोकार्थमारम्भाः क्रियन्तइतिप्रागभिहितं, नचशरीरंलोको भवति, नैतदस्ति,यतः परमार्थदशांज्ञानदर्शनचारित्रात्मकमात्मतत्त्वं विहायान्यत्सर्वं शरीराद्यपि पराक्यमेव, तथाहिबाह्यस्य पौद्गलिकस्याचेतनस्य कर्मणो विपाकभूतानि पञ्चापि शरीराणीत्यतः शरीरात्माऽपि लोकशब्दाभिधेय इति, तदेवं कश्चिच्छरीरनिमित्तं कारभते, परस्तु पुत्रेभ्यो दुहितृभ्यः स्नुषाः-वध्वस्ताभ्यो ज्ञातयःपूर्वापरसम्बद्धाः स्वजनाः तेभ्यो धात्रीभ्यो राजभ्यो दासेभ्योदासीभ्यः कर्मकरेभ्यः कर्मकरीभ्यः आदिश्यते परिजनोयस्मिन्नागते तदातिथेयायेत्यादेशः-प्राघूर्णकस्तदर्थं कर्मसमारम्भाः क्रियन्त इति सम्बन्धः, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy