________________
श्रुतस्कन्धः-१, अध्ययनं-२, उद्देशकः५
१३७ तथा 'पुढो पहेणाए' इत्यादि, पृथक् पृथक् पुत्रादिभ्यः प्रहेणकार्थं तथा 'सामासाए'त्ति श्यामा-रजनी तस्यामशनं श्यामाशः तदर्थं, तथा 'पायरासाए'त्ति प्रातरशनं प्रातराशस्तस्मै, कर्मसमारम्भाः क्रियन्तइति सामान्येनोक्तावपि विशेषार्थमाह-'सन्निहि' इत्यादि,सम्यग्निधीयत इति सन्निधिः-विनाशिद्रव्याणांदध्योदनादीनांसंस्थापनं, तथासम्यनिश्चयेनचीयतइतिसन्निचयःअविनाशिद्रव्याणां अभयासितामृद्वीकादीनां सङ्गहः, सन्निधिश्च सन्निचयश्च सन्निधिसनिचयं, धनधान्यहिरण्यादीना क्रियत इति । स च किमर्थमित्याह-'इह' इत्यादि, ‘इहे ति मनुष्यलोके 'एकेषा'मिहलोकेकृतपरमार्थबुद्धीनां मानवानां मनुष्याणां भोजनाय' उपभोगार्थमिति।तदेवं विरूपरूपैःशस्त्रैरात्मपुत्राद्यर्थं कर्मसमारम्भप्रवृत्तेलोके पृथक्प्रहेणकाय श्यामाशाय प्रातराशाय केषाञ्चिन्मानवानां भोजनार्थं सन्निधिसन्निचयकरणोद्यते सति साधुना किं कर्तव्यमित्याह
मू. (८९) समुट्ठिए अनगारे आरिए आरियपन्ने आरियदंसी अयंसंधित्ति अदक्खु, से नाईए नाइयावए न समनुजाणइ, सव्वामगंधं परिनाय निरामगंधो परिव्वए।
वृ. सम्यक् सततं सङ्गतं वा संयमानुष्ठानेनोत्थितः समुत्थितो, नानाविधशस्त्रकर्मसमारम्भोपरत इत्यर्थः, न विद्यतेऽगारं-गृहमस्येत्यनगारः,पुत्रदुहितृस्नुषाज्ञातिधात्र्यादिरहितइत्यर्थः, सोऽनगारः आराधातः सर्वहेयधर्मेभ्यः इत्यार्यः-चारित्रार्हः, आर्या प्रज्ञायस्यासावार्यप्रज्ञः, श्रुतविशेषितशेमुषीक इत्यर्थः,आर्य-प्रगुणंन्यायोपपत्रं पश्यतितच्छीलश्चेत्यार्यदर्शीपृथक्प्रहेणकश्यामाशनादिसङ्कल्परहित इत्यर्थः, 'अयंसंधीति' सन्धानसन्धीयतेवाऽसावितिसन्धिरयंसन्धिर्यस्य साधोरसावयंसन्धिः, छान्दसत्वाद्विभक्तरलुगित्ययंसन्धिः-यथाकालमनुष्ठानविधायी यो यस्य वर्तमानः कालः कर्त्तव्यतयोपस्थितस्तत्करणतया तमेव सन्धत्त इति, एतदुक्तं भवति-सर्वाः क्रियाः प्रत्युपेक्षणोपयोगस्वाध्यायभिक्षाचर्याप्रतिक्रमणादिकाः असपला अन्योऽन्याबाधया आत्मीयकर्त्तव्यकाले करोतीत्यर्थः, इतिः हेतौ, यस्माद्यथाकालानुष्ठानविधायीतस्मादसावेव परमार्थं पश्यतीत्याह____ 'अदक्खु'त्ति, तिव्यत्ययेन एकवचनावसरे बहुवचनमकारि, ततश्चायमर्थः-यो ह्यार्य आर्यप्रज्ञ आर्यदर्शी कालज्ञश्च स एव परमार्थमद्राक्षीनापर इति, पाठान्तरं वा 'अयंसंधिमदक्खु' 'अयम्' अनन्तरविशेषणविशिष्टः साधुः ‘सन्धि' कर्तव्यकालम् 'अद्राक्षीद्' दृष्टवान्, एतदुक्तं भवति-यः परस्पराबाधयाहिताहितप्राप्तिपरिहाररूपतया विधेयावसरं वेत्तिविधत्तेचस परमार्थं ज्ञातवानिति, अथवा भावसन्धिः- ज्ञानदर्शनचारित्राणामभिवृद्धिः स च शरीरमृते न भवति, तदपि नोपष्टम्भककारणमन्तरेण, तस्य च सावधस्य परिहारः कर्तव्य इत्यत आह- ‘से नाईए' इत्यादि, 'स' भिक्षुस्तद्वाऽकल्प्यं नाददीत नगृह्णीयानाप्यपरमादापयेत्-ग्राहयेत्, नाप्यपरमनेषणीयमाददानं समनुजानीयादपि, अथवा सइङ्गालं सधूमं वा नाद्यात्-न भक्षयेन्नापरमादयेददन्तं वान समनुजानीयादिति, आह-'सव्वामगंध' इत्याति, आमंचगन्धश्च आमगन्धं समाहारद्वन्द्वः, सर्वं च तदामगन्धं च सर्वामगन्धं, सर्वशब्दः प्रकारकात्सर्येऽत्र गृह्यते न द्रव्यकात्सर्ये, आमम्अपरिशुद्धं, गन्धग्रहणेन तु पूतिगृह्यते, ननु च पूतिद्रव्यस्याप्यशुद्धत्वात् आमशब्देनैवोपादानाकिमकिमर्थं भेदेनोपादानमिति? ___ सत्यम्, अशुद्धसामान्याद्गृह्यते, किंतुपूतिग्रहणेनेधाकाद्यविशुद्धकोटिरुपात्ता,तस्याश्च
Jain Education International
For
For Private & Personal Use Only
al
www.jainelibrary.org