SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ १३२ आचाराङ्गसूत्रम् १/-/२/३/८३ दुःखी, एवंभूतश्च सन् किमवाप्नोतीत्याह-'दुक्खाणं' इत्यादि, दुःखानां-शारीरमानसानामावतपौनःपुन्यभवनमनुपरिवर्तते, दुःखावर्तावमग्नो बंभ्रम्यत इत्यर्थः,। इतिः परिसमाप्तौ, ब्रवीमीति पूर्ववत्॥ अध्ययनं-२ उद्देशकः-३समाप्तः अध्ययनः२, उद्देशकः४:मू. (८४)तओ से एगया रोगसमुप्पाया समुप्पजंति, जेहिं वासद्धिं संवसइतेवणंएगया नियया पुब्बिं परिवयंति, सो वाते नियगे पच्छा परिवइज्जा, नालंतेतव ताणाएवा सरणाएवा, तुमंपि तेसिं नालं ताणाए वा सरणाए वा, जाणितु दुक्खं पत्तेयं सायं, भोगा मे व अनुसोयन्ति इहमेगेसिं माणवाणं। वृ.उक्तस्तृतीयोद्देशकः, साम्प्रतं चतुर्थस्य व्याख्या प्रस्तूयते-भोगेष्वनभिषक्तेन भाव्यं, यतोभोगिनामपायादयन्ते (इति) प्रागुक्तं,तेचामी-'तओसेएगया' इत्यादि, अनन्तरसूत्रसम्बन्धः 'दुक्खीदुक्खाणमेव आवर्ल्डअणुपरियट्टई ति, तानिचामूनिदुःखानि तओसे' इत्यादि, परम्परसूत्रसम्बन्धस्तु'बालेपुणनिहेकाममसमणुण्णे',तेचकामादुःखात्मकाएव,तत्र चासक्तस्यधातुक्षयभगन्दरादयोरोगाः समुत्पद्यन्तेइत्यतोऽपदिश्यते-'तत'इतिकामानुषङ्गात् कर्मोपचयस्ततोऽपि पञ्चत्वं तस्मादपि नरकभवो नरकानिषेककललार्बुदपेशीव्यूह- गर्भप्रसवादितिस्य च रोगाः प्रादुष्यन्ति, से' तस्य कामानुषक्तमनसः 'एकदे'त्यसाता-वेदनीयविपाकोदये रोगसमुत्पादा' इति रोगाणां-शिरोऽतिशूलादीनां समुत्पादाः-प्रादुर्भावाः समुत्पद्यन्ते' प्रादुर्भवन्ति, तस्यां च रोगावस्थायांकिंभूतोभवत्यसावित्यतआह-जेहिं' इत्यादि, यैर्वा सार्द्धमसौसंवसति,तएवैकदा निजाः पूर्वं परिवदन्ति, सवा तानिजान् पश्चात्परिवदेव, नालं ते; तव त्राणाय वा शरणाय वा, त्वमपितेषां नालंत्राणायवाशरणायवा, इतिज्ञात्वा दुःखंप्रत्येकंसातंचस्वकृतकर्मफलमुजः सर्वेऽपि प्राणिन इति मत्वा रोगोत्पत्तौ नदौर्मनस्यंभावनीयं, न भोगाःशोचनीया इति, आहच-“भोगामे इत्यादि, भोगाः-शब्दरूपरसगन्धस्पर्शविषयाभिलाषास्तानेवानुशोचयन्ति-कथमस्यामप्यवस्थायां वयं भोगान् मुखमहे ?, एवंभूता वाऽस्माकं दशाऽभूयेन मनोज्ञा अपिविषया उपनता नोपभोगायेति।ईदक्षश्चाध्यवसायः केषाञ्चिदेव भवतीत्याह-'इहमेगेसिं' इत्यादि, इह संसारेएकेषामनवगतविषयविपाकानांब्रह्मदत्तादीनांमानवानामेवंभूतोऽध्यवसायो भवति, नसर्वेषां, सनत्कुमारादिनाव्यभिचारात्, तथाहि ब्रह्मदत्तोमारणान्तिकरोगवेदनाभिभूतः सन्तापातिशयात् स्पृशन्तीं प्रणयिनीमिव विश्वासभूमी मूर्छा बहुमन्यमानः तथा हस्तीकृतो विहस्ततया विषयीकृतो वैषम्येण गोचरीकृतो ग्लान्या दृष्टो दुःखासिकया क्रोडीकृतो कालेन पीडितःपीडाभिर्निरूपितोनियत्याआदित्सितोदैवेन अन्तिकेऽन्त्योच्छ्वासस्य मुखे महाप्रवासस्य द्वारिदीर्घनिद्राया जिह्वाग्रेजीवितेशस्य वर्तमानो विरलोवाचिविह्वलोवपुषिप्रचुरःप्रलापेजितो जृम्मभिकाभिरित्येवंभूतामवस्थामनुभवन्नपि महामोहोदयात् भोगांश्चिकाटिषुः पार्वोपविष्टां भार्यामनवरतवेदनावेशविगलदश्रुरक्तनयनां कुरुमति ! कुरुमतीत्येवं तां व्याहरनधः सप्तमी नरकपृथ्वीमगात्, तत्रापि तीव्रतरवेदनाभिभूतोप्य वगणय्य वेदनां तामेव कुरुमतीं व्याहरतीत्येवंभूतो मोगाभिष्वङ्गो दुस्त्यजो भवति केषाञ्चित्, नपुनरन्येषां महापुरुषाणामुदारसत्त्वानाम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy