________________
श्रुतस्कन्धः-१, अध्ययनं-२, उद्देशक:३
. १३१ परकूलं तद्गच्छन्तीति पारङ्गमानपारङ्गमा अपारङ्गमाः 'एत' इति पूर्वोक्ताः, पारगतोपदेशाभावादपारङ्गता इति भावनीयं, न च ते पारगतोपदेशमृते पारगमनायोद्यता अपि पारं गन्तुमलम्, अथवा गमनंगमः पारस्यपारेवागमः पारगमः, सूत्रे त्वनुस्वारोऽलाक्षणिको, नपारगमोऽपारगमस्तस्माअपारगमाय, असमर्थसमासोऽयं, तेनायमर्थः-पारगमनायतेन भवन्तीत्युक्तंभवति, ततश्चानन्तमपि कालं संसारान्तर्वर्तिन एवासते, यद्यपि पारगमनायोद्यमयन्ति तथापि ते सर्वज्ञोपदेशविकलाःस्वरुचिविरचितशास्त्रप्रवृत्तयो नैवसंसारपारंगन्तुमलम्, अथ तीरपारयोः को विशेष इति, उच्यते, तीरंमोहनीयक्षयः पारंशेषधातिक्षयः,अथवा तीरंघातिचतुष्टयापगमः पारं भवोपग्राह्यभाव इत्यर्थः, स्यात्-कथमोघतारी कुतीर्थादिको न भवति तीरपारगामी चेत्याह'आयाणिजं' इत्यादि, आदीयन्ते-गृह्यन्तेसर्वभावाअनेनेत्यादानीयं-श्रुतंतदादायतदुक्तेतस्मिन् संयमस्थानेन तिष्ठति,
__ यदि वा-आदानीयम्-आदातव्यं भोगाङ्गं द्विपदचतुष्पदधनधान्यहिरण्यादि तदादायगृहीत्वा, अथवा-मिथ्यात्वाविरतिप्रमादकषाययोगैरादानीयं-कादाय, किंभूतो भवतीत्याह'तस्मिन्’ ज्ञानादिमये मोक्षमार्गे सम्यगुपदेशे वा प्रशस्तगुणस्थाने न तिष्ठतिनात्मानं विधत्ते, न केवलं सर्वज्ञोपदेशस्थानेनतिष्ठतिविपर्ययानुष्ठायीच भवतीतिदर्शयति-'वितहं' इत्यादि, वितथम्असद्भूतंदुर्गतिहेतुंतत्तथाभूतमुपदेशंप्राप्याखेदज्ञः अकुशलः खेदज्ञो वाऽसंयमस्थाने तस्मिश्च साम्प्रतेक्ष्याचरित उपदिष्टे वा तिष्ठति, तत्रैवासंयमस्थानेऽध्युपपन्नो भवतीतियावत्, अथवा वितथमिति आदानीयभोगाङ्गव्यतिरिक्तं संयमस्थानं तयाप्य खेदज्ञो-निपुणस्तस्मिन् स्थाने आदानीयस्यहन्तृणि तिष्ठति, सर्वज्ञाज्ञायामात्मानंव्यवस्थापयन्तीत्यर्थः । अयंचोपदेशोऽनवगततत्त्वस्य विनेयस्य यथोपदेशंप्रवर्त्तमानस्य दीयते, यस्त्ववगतहेयोपादेयविशेषः स यथावसरं यथाविधेयं स्वत एव विधत्त इत्याह च
मू. (८३) उद्देसो पासगस्स नत्थि, बाले पुण निहे कामसमणुन्ने असमियदुक्खे दुक्खी दुक्खाणमेव आवढे अणुपरियट्टइ-त्तिबेमि॥
वृ.उद्दिश्यतेइत्युद्देशः-उपदेशः सदसत्कर्त्तव्यादेशः सपश्यतीतिपश्यःसएवपश्यकस्तस्य न विद्यते, स्वत एव विदितवेद्यत्वात्तस्य, अथवा पश्यतीति पश्यकः-सर्वज्ञस्तदुपदेशवर्ती वा तस्य उद्दिश्यत इत्युद्देशो-नारकादिव्यपदेशः उच्चावचगोत्रादिव्यपदेशो वा स तस्य न विद्यते, तस्य द्रागेव मोक्षगमनादितिभावः, कः पुनर्यथोपदेशकारी न भवतीत्याह-'बाले' इत्यादि, बालो नामरागादिमोहितः,सपुनः कषायैः कर्मभिः परीषहोपसर्गनिहन्यत इति निहः, निपूर्वाद्धन्तेः कर्मणि डः,अथवा स्निह्यत इति स्निहः-स्नेहवाम्रागीत्यर्थः, अतएवाह-'कामसमणुने' कामाःइच्छामदनरूपाः सम्यग्मनोज्ञायस्यसतथा, अथवा सह मनोहवर्तत इति समनोज्ञो, गमकत्वात्सापेक्षस्यापि समासः, कामैः सह मनोज्ञः कामसमनोज्ञो, यदिवा कामान् सम्यगनु-पश्चात् स्नेहानुबन्धाज्जानाति सेवत इति कामसमनुज्ञः, एवंभूतश्च किंभूतो भवतीत्याह 'असमियदुक्खे' अशमितम्-अनुपशमितं विषयाभिष्वङ्गकषायोत्थं दुःखं येन स तथा, यत एवाशमितदुःखोऽत एव दुःखी शारीरमानसाभ्यां दुःखाभ्यां, तत्र शारीरं कण्टकशस्त्रगण्डलूता- दिसमुत्थं मानसं प्रियविप्रयोगाप्रियसंप्रयोगेप्सितालाभदारिद्यदौर्भाग्यदौर्मनस्यकृतंतद्विरूपमपिदुःखंविद्यतेयस्यासौ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org