________________
१३०
आचाराङ्ग सूत्रम् १/-/२/३/८२
सुरपतिमपि श्वा पार्श्वस्थं सशङ्कितमीक्षते,
न हि गणयति क्षुद्रो लोकः परिग्रहफल्गुताम् " इत्यादि, स च किमर्थमर्थमर्थयत इत्यत आह-'भोयणाए' भोजनम्-उपभोगस्तस्मै अर्थमर्थयते, तदर्थी च क्रियासु प्रवर्तते, क्रियावतश्च किं भवतीत्याह-'तओ से' इत्यादि, ततः 'से' तस्यावलगनादिकाः क्रियाः कुर्वतः ‘एकदा' लाभान्तरायकर्मक्षयोपशमे विविधं नानाप्रकारं 'परिशिष्टं' प्रभूत्वाद्युक्तोद्धरितं ‘सम्मूतं;' सम्यकपरिपालनाय भूतं-संवृत्तं, किं तत् ?, महच्च तत्परिभोगाङ्गत्वादुपकरणं च महोपकरणं-द्रव्यनिचय इत्यर्थः, स कदाचिल्लाभोदये भवति, असावप्यन्तरायोदयान तस्योपभोगायेत्याह-'तंपि से' इत्यादि, तदपि समुद्रोत्तरणरोहणखननबिलप्रवेशरसेन्द्रमर्दनराजावलगनकृषीवलादिकाभिः क्रियाभिः स्वपरोपतापकारिणीभिः स्वोपभोगायोपार्जितं सत् से' तस्यार्थोपार्जनोपायक्लेशकारिणः ‘एकदा' भाग्यक्षये 'दायादाः' पितृपिणडोदकदानयोग्याः ‘विभजन्ते' विलुम्पन्ति, 'अदत्तहारोवा' दस्युर्वा अपहरति, राजानो वा 'विलुम्पन्ति' अवच्छिन्दन्ति ‘नश्यति वा' स्वत एवाटवीतः ‘से'तस्य 'विनश्यति वा' जीर्णभावापत्तेः ‘अगारदाहेन वा' गृहदाहेन वा दह्यते, कियन्ति वा कारणान्यर्थनाशे वक्ष्यन्ते इत्युपसंहरति-'इति' एवं बहुभिः प्रकारैरुपार्जितोऽप्यों नाशमुपैति, नैवोपार्जयितुरुपतिष्ठत इत्युपदिश्यते, सःअर्थस्योत्पादयितापरस्मै-अन्यस्मैअर्थाय-प्रयोजनायअन्यप्रयोजनकृते 'क्रराणि' गलकर्तनादीनि 'कर्माणि' अनुष्ठानानि 'बालः' अज्ञः 'प्रकुर्वाणः' विदधानः 'तेन' कर्मविपाकापादितेन 'दुःखेन' असातोदयेन (सं) मूढः' अपगतविवेकः 'विपर्यासमुपैति' अपगतसदसद्विवेकत्वात्कार्यमकार्यं मन्यते व्यत्ययं चेति, उक्तंच॥१॥
“रागद्वेषाभिभूतत्वात्कार्याकार्यपरामुखः।
एष मूढ इति ज्ञेयो, विपरीतविधायकः" __ तदेवं मौढ्यान्धतमसाच्छादितालोकपथाः सुखार्थिनो दुःखमृच्छन्दि जन्तव इति ज्ञात्वा सर्वज्ञवचनप्रदीपमशेषपदार्थस्वरूपाविर्भावकमाललम्बिरे मुनयः,अदश्चमयान स्वमनीषिकयोच्यते सुधर्मस्वामीजम्बूस्वामिनमाह, यदि स्वमनीषिकयानोच्यतेकौतस्तत्यंत_दमित्यतआह-‘मुणिणा' इत्यादि, मनुते जगतस्त्रिकालावस्थामिति मुनिः-तीर्थकृत्तेन ‘एतद्' असकृदुच्चैर्गोत्रभवनादिकं प्रकर्षेणादौ वा सर्वस्वभाषानुगामिन्या वाचावेदितं-कथितं वक्ष्यमाणंच प्रवेदितं, किं तदित्याह'अणेहं' इत्यादि, ओघो द्विधाद्रव्यभावभेदात्, द्रव्यौधो नदीपूरादिको भावौद्योऽष्टप्रकारं कर्म संसारो वा, तेन हि प्राण्यनन्तमपि कालमुह्यते, तम्ओधं ज्ञानदर्शनतचारित्रबोहित्थस्था तरन्तीत्योघन्तरा न ओघन्तरा अनोघन्तराः, तरतेश्छान्दसत्वात् खश, खित्त्वान्मुमागमः, एते कुतीर्थिकाः पारर्श्वस्थादयो वा ज्ञानादियानविकलाः यद्यपि तेऽप्योघतरणायोद्यतास्तथापि सम्यगुपायाभावात् न ओघतरणसमर्था भवन्तीति आह च
'नो य ओहं तरित्तए' 'न च' नैवोध-भावौध तरितुं समर्थाः, संसारौघतरणप्रत्यला न भवन्तीत्यर्थः, तथा अतीरंगमा' इत्यादि तीरं गच्छन्तीति तीरङ्गमाः पूर्ववत् खश्प्रत्ययादिकं, न तीरङ्गमाअतीरङ्गमाः एतिइतिप्रत्यक्षभावमापन्नान्कुतीर्थिकादीन्दर्शयति, नचतेतीरगमनायोद्यता अपि तीरं गन्तुमलं सर्वज्ञोपदिष्टसन्मार्गाभावादिति भावः, तथा 'अपारंगमा' इत्यादि, पारः-तटः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org