SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - १, अध्ययनं-२, उद्देशक:३ १२९ वृ. यतः- 'नत्थि' इत्यादि, 'नास्ति' न विद्यते 'कालस्य' मृत्योरनागमः-अनागमनमनवसर इतियावत, तथाहि-सोपक्रमायुषोऽसुमतो न काचित्साऽवस्था यस्यां कापावकान्तर्वर्ती जन्तुर्जतुगोलक इव न विलीयेत इति, उक्तंच॥१॥ “शिशुमशिशुंकठोरमकठोरमपण्डितमपिच पण्डितं, धीरमधीरं मानिनममानिनमपगुणमपि च बहुगुणम् । __यतिमयति प्रकाशमवलीनमचेतनमथ सचेतनं, निशि दिवसेऽपि सान्ध्यसमयेऽपि विनश्यति कोऽपि कथमपि" तदेवं सर्वंकषत्वं मृत्योरवधार्याहिंसादिषुदत्तावधानेन भाव्यं, किमिति?, यतः-'सव्वे पाणा पियाउया' प्राणशब्देनात्राभेदोपचारात्तद्वन्त एवगृह्यन्ते, सर्वेप्राणिनो-जन्तवः 'प्रियायुषः' प्रियमायुर्येषां ते तथा, ननु च सिद्धैव्यभिचारो, न हि ते प्रियायुषस्तदभावात्, नैष दोषो, यतो मुख्यजीवादिशब्दव्युदासेन प्राणशब्दस्योपचरितस्य ग्रहणं संसारप्राण्युपलक्षणा-र्थमिति यत्किञ्चिदेतत्, पाठान्तरं वा 'सव्वे पाणा पियायया' आयतः-आत्माऽनाद्यनन्तत्वात् स प्रियो येषां ते तथा, सर्वेऽपिप्राणिनः प्रियात्मानः । प्रियात्मता च सुखदुःखप्राप्तिपरिहारतया भवतीति आह च-'सुहसाया दुक्खडिकूला' सुखम्-आनन्दरूपमास्वादयन्तीति सुखास्वादाः-सुखभोगिनः सुखैषिणइत्युक्तंभवति, दुःखम्-असातंतप्रतिकूलयन्तीतिदुःखप्रतिकूलाः-दुःखद्वेषिणइत्युक्तं भवति, तथा अप्रियवधा' अप्रियं-दुःखकारणंतत्घ्नत्यप्रियवधाः, तथापि 'पियजीविणो' प्रियंदयितं जीवितम्-आयुष्कमसंयमजीवितं येषां ते तथा, 'जीविउकामा' यत एव प्रियजीविनोऽत एव दीर्धकालं जीवितुकामाः- दीर्धकालमायुष्काभिलाषिणो दुःखाभिभूता अप्यन्त्यां दशामापन्ना जीवितुमेवाभिलषन्ति, उक्तं च- । ॥१॥ “रमइ विहवी विसेसे ठितिमित्तं थेववित्थरो महई। मग्गइ सरीरमहणो रोगी जीए च्चिय कयत्थो" __ तदेवं सर्वोऽपिप्राणी सुखजीविताभिलाषी, तच्च नारम्भमृते, असावपिप्राण्युपघातकारी, प्राणिनां च जीवितमत्यर्थं दयितमित्यतो भूयो भूयस्तदेवोपदिश्यत इत्याह-'सव्वेसिं' इत्यादि, सर्वेषामविगानेन 'जीवितम्' असंयमजीवितं प्रियं' दयितं, यद्येवं ततः किमित्यत आह-'तं परिगिज्झ' तद्-असंयमजीवितं परिगृह्य'; आश्रित्य, किं कुर्वन्तीत्याह- 'दुपयं' इत्यादि, 'द्विपदं' दासीकमकरादि चतुष्पदं गवाश्वादि अभियुज्य' योजयित्वाअभियोगंग्राहयित्वाव्यापारयित्वेत्युक्तं भवति, ततः किमित्यतआह-'संसिंचियाणं' इत्यादि, प्रियजीवितार्थमर्थाभिवृद्धयेद्विपदचतुष्पदादिव्यापारेण संसिच्य' अर्थनिचयं संवर्ध्य 'त्रिविधेन' योगत्रिककरणत्रिकेण यापि काचिदल्पा परमार्थचिन्तायां बह्ययपिफल्गुदेश्या 'से' तस्यार्थारम्भिणः साचार्थमात्रा 'तत्र' इति द्विपदाद्यारम्भे ‘मात्रा' इति सोपस्कारत्वात्सूत्राणां अर्थमात्रा-अल्पता 'भवति' सत्तां बिभर्ति, किंभूता?, सा सूत्रेणैव कथयति-अल्पा वा बह्वी वा, अल्पबहुत्वं चापेक्षिकमतः सर्वाऽप्यल्पा सर्वाऽपि बह्वी 'स' इत्यर्थवान् ‘तत्र' तस्मिन्नर्थे 'गृद्धः' अध्युपपन्नस्तिष्ठति, नालोचयत्यर्थस्योपार्जनक्लेशं न गणयति रक्षणपरिश्रमं न विवेचयति तरलतां नावधारयति फल्गुताम्, उक्तंच॥१॥ कृमिकुलचितं लालाक्लिन्नं विगन्धि जुगुप्सितं, निरुपमरसप्रीत्या खादन्नरास्थि निरामिषम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy