SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - १, अध्ययनं - २, उद्देशक - ४ १३३ आत्मनोऽन्यच्छरीरमित्येवमवगततत्त्वानां सनत्कुमारादीनामिव यथोक्तरोगवेदनासद्द्मावे सत्यपि मयैवैतत्कृतं सोढव्यमपि मयैवेत्येवं जातनिश्चायानां कर्म्मक्षपणोद्यतानां न मनसः पीडोत्पद्यते इति उक्तं च 11911 "उप्तो यः स्वत एव मोहसलिलो जन्मालवालोऽशुभो, रागद्वेषकषायसन्ततिमहानिर्विघ्नबीजस्त्वया । रोगैरङ्कुरितो विपतकुसमितः कर्म्मद्रुमः साम्प्रतं, सोढा नो यदि सम्यगेष फलितो दुःखैरघोगामिभिः ॥२॥ पुनरपि सहनीयो दुःखपाकस्त्वाऽयं, न खलु भवति नाशः कर्म्मणा संचितानाम् । इति सह गणयित्वा यद्यदायाति सम्यग्, सदसदिति विवेकोऽन्यत्र भूयः कुतस्त्यः ?" अपि च-भोगानां प्रधानं कारणमर्थोऽतस्तस्वरूपमेव निर्दिदिक्षुराह मू. (८५) तिविहेण जाऽवि से तत्थ मत्ता भवइ अप्पा वा बहुगा वा, से तत्थ गड्डिए चिट्ठइ, भोयणाए, तओ से एगया विपरिसिद्धं संभूयं महोवगरणं भवइ, तंपि से एगया दायाया विभयंति, अदत्तहारो वा से हरति, रायाणो वा से विलुंपंति, नस्सइ वा से विणस्सइ वा से, अगारडाहेण वा से डज्झइ इय, से परस्स अट्ठाए कूराणि कम्माणि बाले पकुव्वमाणे तेण दुक्खेण मूढे विप्परियासमुवेइ । वृ. त्रिविधेन याऽपि तस्य तत्रार्थमात्रा भवति अल्पा वा बह्वी वा, स तस्यामर्थमात्रायां गृद्धस्तिष्ठति, सा च भोजनाय किल भविष्यति, ततस्तस्यैकदा विपरिशिष्टं सम्भूतं महोपकरणं भवति, तदपि ‘से' तस्यैकदा दायादा विभजन्ते, अदत्तहारो वा तस्य हरति, राजानो वा विलुम्पन्ति, नश्यति वा विनश्यति वा, अगारदाहेन वा दह्यते इति, स परस्मै अर्थाय क्रूराणि कर्माणि बालः प्रकुर्वाणस्तेन दुःखेन मूढो विपर्यासमुपैति एतच्च प्रागेव व्याख्यातमिति नेह प्रतायते ॥ तदेवं दुःखविपाकान् भोगान् प्रतिपाद्य यत् कर्तव्यं तदुपदिशतीत्याह मू. (८६) आसं च छन्दं च विगिंच धीरे !, तुमं चेव तं सल्लमाहट्टु जेण सिया तेण नो सिया, इणमेव नावबुज्झति जे जना मोहपाउडा, थीभि लोए पव्वहिए, ते भो ! वयंति एयाइं आययणाई, से दुक्खाए मोहाए माराए नरगाए नरगतिरिक्खाए, सययं मूढे धम्मं नाभिजाणइ, उआहु वीरे, अप्पमाओ महामोहे, अलं कुसलस्स पमाएणं, संतिमरणं संपेहाए भेउरधम्मं संपेहाए, नालं पास अलं ते एएहिं । वृ. 'आशां' भोगाकाङ्क्षां, चः समुच्चये, छन्दनं छन्दः- परानुवृत्त्या भोगाभिप्रायस्तं च, चशब्दः पूर्वापेक्षया समुच्चयार्थः, तावाशाछन्दौ 'वेविश्व' पृथक्कुरु त्यज 'धीर !' धीः- बुद्धिस्तया राजत इति, भोगाशाछन्दापरित्यागे च दुःखमेव केवलं न तव्याप्तिरिति, आहच- 'तुमं चेव' इत्यादि, विनेय उपदेशगोचरापन्न आत्मा वा उपदिश्यते-त्वमेव तद्मोगाशा दिकं शल्यमाहृत्य स्वीकृत्य परमशुभमादत्से, न तु पुनरुपभोगं, यतो भोगोपभोगो यैरेवार्थाद्युपायैर्भवति तैरेव न भवतीत्याह'जेसिआ तेण नोसिया' येनैवार्थोपार्जनादिना भोगोपभोगः स्यात् तेनैव विचित्रत्वात्कर्म्मपरिणतेर्न स्याद्, अथवा येन केनचिद्धेतुना कर्म्मबन्धः स्यात्तन्न कुर्यात्, तत्र न वर्तेतेत्यर्थः, यदिवा येनैव राज्योपभोगादिना कर्म्मबन्धोयेनवा निर्ग्रन्थत्वादिनामोक्षः 'स्याद्' भवेत्तेनैव तथाभूतपरिणामवशान्न For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy