________________
१२६
आचाराङ्ग सूत्रम् १/-/२/३/७९ सश्छान्दसत्वाद्वा, दुःखोद्वेगश्चासौसुखैषकञ्चदुःखोद्वेगसुखैषकः, सर्वोऽपिप्राणीदुःखोद्वेगसुखैषक एव भवत्यतो जीवप्ररूपणं कार्य, तच्चावनिवनपवनानलवनस्पतिसूक्ष्मबादरविकल-पञ्चेन्द्रियसंज्ञीतरपर्याप्तकापर्याप्तकरूपंशस्त्रपरिज्ञायामकार्येव,तेषांचदुःखपरिजिहीर्पूणांसुखलिप्सूनामात्मौपम्यमाचरता तदुपमर्दकानि हिंसादिस्थानानि परिहरताऽऽत्मा पञ्चमहाव्रतेष्वा-स्थेयः, तत्परिपालनार्थं चोत्तरगुणा अप्यनुशीलनीयाः, तदर्थमुपदिश्यते-'समिए एयाणुपस्सी' पञ्चभिः समितिभिः समितः सन् एतत्-शुभाशुभंकर्मवक्ष्यमाणंचान्धत्वादिकंद्रष्टुंशीलंयस्येत्येतदनुदर्शी भूतेषुसातंजानीहीतिसण्टङ्कः, तत्र समिति रिति इण्गता; वित्यस्मात्सम्पूर्वाक्तिनन्ताद्मवति, साचपञ्चधा,
तद्यथा-ईभिाषणाऽऽदाननिक्षेपोत्सर्गरूपाः, तत्रैर्यासमितिः प्राणव्यपरोपणव्रतपरिपालनाय, भाषासमितिरसदभिधाननियमसंसिद्धये, एषणासमितिरस्तेयव्रतपरिपालनाय, शेषद्वयं तु समस्तव्रतप्रकृष्टस्याहिंसाव्रतस्य संसिद्धये व्याप्रियते इति, तदेवं पञ्चमहाव्रतोपपेतस्तद्ववृत्तिकल्पसमितिभिः समितः सन् भावत एततसातादिकमनुपश्य॑ति, अथवा यदनुदय॑सौ भवति तद्यथेत्यादिना सूत्रेणैव दर्शयति अन्धत्वमित्यादिनायावत् विरूपरूपेफासे परिसंवेएई' संसारोदरे पर्यटन प्राणी अन्धत्वादिका अवस्था बहुशः परिसंवेदयते, स चान्धो द्रव्यतो भावतश्च, तत्रैकेन्द्रियद्वीन्द्रियत्रीन्द्रिया द्रव्यभावान्धाः,चतुरिन्द्रियादयस्तुमिथ्यादष्टयोमावान्याः, उक्तंच॥१॥ “एकं हि चक्षुरमलं सहजो विवेकस्तद्वद्मिरेव सह संवसतिर्द्वितीयम् ।
एतद्वयं भुविन यस्य स तत्त्वतोऽन्धस्तस्यापमार्गचलने खलु कोऽपराधः?"
सम्यग्दृष्टयस्तूपहतनयना द्रव्यान्धा, तएवानन्धानद्रव्यतोनच भावतः, तदेवमन्धत्वं द्रव्यभावभिन्नमेकान्तेन दुःख जननमवाप्नोतीति, उक्तंच॥१॥ “जीवन्नेव मृतोऽन्धो यस्मात्सर्वक्रियासुपरतन्त्रः।
नित्यास्तमितदिवाकरस्तमोऽन्धकारार्णवनिमग्नः ॥२॥ लोकद्वयव्यसनवह्निविदीपिताङ्गमन्धं समीक्ष्य कृपणं परयष्टिनेयम्।
को नोद्विजेत भयकृज्जननादिवोग्रात्कृष्णाहिनैकनिचितादिव चान्धगर्तात् ?"
एवंबधिरत्वमप्यदष्टवशादनेकशः परिसंवेदयते,तदावृतश्चसदसद्विवेकविकलत्वादैहिकामुष्मिकेष्टफलक्रियानुष्ठानशून्यतां बिभर्तिइति, उक्तंच
॥१॥ “धर्मश्रुतिश्रवणमङ्गलवर्जितो हि, लोकश्रुतिश्रवणसंव्यवहारबाह्यः । किंजीवतीह बधिरो? भुवियस्य शब्दाः, स्वप्नोपलब्धधननिष्फलतां प्रयान्ति? ॥२॥ स्वकलत्रबालपुत्रकमधुरवचःश्रवणबाह्यकरणस्य ।
बधिरस्यजीवितं किं जीवन्मृतकाकृतिधरस्य? "
-एवंमूकत्वमप्येकान्तेन दुःखावहं परिसंवेदयते, उक्तंच॥9॥ "दुःखकरमकीर्तिकरं मूकत्वं सर्वलोकपरिभूतम् ।
प्रत्यादेशं मूढाः कर्मकृतं किं न पश्यन्ति?" तथा काणत्वमप्येवंरूपमिति, आह च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org