SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः- १, अध्ययनं-२, उद्देशक-३ १२७ ॥१॥ काणो निमग्नविषमोन्नतदष्टिरेकः, शक्तो विरागजनने जननातुराणाम्। यो नैव कस्यचिदुपैति मनःप्रियत्वमालेख्यकमलिखितोऽपि किमुस्वरूपः? एवं 'कुण्टत्वं' पाणिवक्रत्वादिकं 'कुब्जत्वं' वामनलक्षणं 'वडभत्वं विनिर्गतपृष्ठीवडभलक्षणं 'श्यामत्वं' कृष्णालक्षणं 'शबलत्वं' श्वित्रलक्षणं सहजं पश्चाद्मावि वा कर्मवशगो भूरिशो दुःखराशिदेशीयं परिसंवेदयते । किं च-सह 'प्रमादेन' विषयक्रीडाभिष्वङ्गरूपेण श्रेयस्यनुद्यमात्मकेन ‘अनेकरूपाः' सङ्कटविकटशीतोष्णादिभेदभिन्ना योनीः 'संदधाति संघत्ते चतुरशीतियोनिलक्ष- सम्बन्धाविच्छेदं विदधातीति भावः, सम्यग् धावतीति वा, तासु तास्वायुष्कबन्धोत्तरकालंगच्छतीत्यर्थः, तासुचनानाप्रकारासुयोनिषु विरूपरूपान् नानाप्रकारान् 'स्पर्शान्' दुःखानुभवान् परिसंवेदयते, अनुभवतीत्यर्थः॥तदेवमुच्चैर्गोत्रोत्थापितमानोपहतचेता नीचैर्गोत्रविहितदीनभावो वाऽन्धबधिरभूयंवागतःसन्नावबुध्यते कर्त्तव्यंन जानातिकर्मविपाकं नावगच्छति संसारपसदतां नावधारयति हिताहिते न गणयति औचित्यमित्यनवगततत्त्वो मूढस्तत्रैवोच्चैर्गोत्रादिके विपर्यासमुपैति, आह च मू. (८०) से अबुज्झमाणे हओवहएजाईमरणंअनुपरियट्टमाणे, जीवियंपुढोपियंइहमेगेसिं माणवाणं खित्तवत्थुममायमाणाणं, आरत्तंविरत्तंमणिकुंडलंसह हिरण्णेण इत्थियाओ परिगिज्झति तत्थेवरत्ता, न इत्थ तवो वा दमो वा नियमो वा दिस्सइ, संपुण्णं बाले जीविउकामे लालप्पमाणे मूढे विप्परियासमुवेइ। वृ. 'से' इत्युच्चैर्गोत्राभिमानी अन्धबधिरादिभावसंवेदको वा कर्मविपाकमनवबुध्यमानो हतोपहतो भवति, नानाव्याधिसद्मावक्षतशरीरत्वाद्धतः समस्तलोकपरिभूतत्वादुपहतः, अथवोच्चैर्गोत्रगर्वाध्मातत्यक्तोचितविधेयविद्वज्जनवदनसमुद्भूतशब्दायशःपटहहतत्वाद्धतः अभिमानोत्पादितानेकभवकोटिनीचैर्गोत्रोदयादुपहतः, मूढो विपर्यासमुपैतीत्युत्तरेण सम्बन्धः, तथा जातिश्चमरणंच समाहारद्वन्द्वस्तद् ‘अनुपरिवर्त्तमानः' पुनर्जन्म पुनर्मरणमित्येवमरहट्टघटीयन्त्रन्यायेन संसारोदरे विवर्तमानः, आवीचीमरणाद्वा प्रतिक्षणं जन्मविनाशावनुभवन् दुःखसागरावगाढो विशरारुण्यपि नित्यताकृतमतिः हितेऽप्यहिताध्यवसायो विपर्यासमुपैति, आह च-'जीवितम्' आयुष्कानुपरमलक्षणमसंयमजीवितंवा _ 'पृथग्' इति प्रत्येकं प्रतिप्राणि 'प्रियं' दयितं वल्लभम् ‘इहे'ति अस्मिन् संसारे 'एकेषाम्' अविद्योपहतचेतसां मानवानामिति, उपलक्षणार्थत्वात् प्राणिनां, तथाहि-दीर्घजीवनार्थं तास्ता रसायनादिकाः क्रियाः सत्त्वोपघातकारिणीः कुर्वते, तथा क्षेत्रं' शालिक्षेत्रादि वास्तु' धवलगृहादि ममइदमित्येवमाचरतांसतांतत्क्षेत्रादिकंप्रेयो भवति, किंच-'आरक्तम् ईषद्रक्तवस्त्रादि विरक्तं; विगतरागं विविधरागं वा 'मणिः' इति रत्लवैडूर्येन्द्रनीलादिकुण्डलं' कर्णाभरणं हिरण्येन सह स्त्रीः परिगृह्य तत्रैव' क्षेत्रवास्त्वारक्तविरक्तवस्त्रमणिकुण्डलस्त्र्यादो ‘रक्ता' गृद्धा अध्युपपन्ना मूढा विपर्यासमुपयान्ति, वदन्तिच-नात्र 'तपोवा' अनशनादिलक्षणं 'दमोवा' इन्द्रियनोइन्द्रियोपशमलक्षणो 'नियमो वा' अहिंसाव्रतलक्षणः फलवान् दृश्यते, तथाहि-तपोनियमोपपेतस्यापि कायक्लेशभोगादिवञ्चनां विहाय नान्यत्फलमुपलभ्यते, जन्मान्तरे भविष्यतीति चेद्व्युद्ग्राहत Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy