________________
१२४
आचाराङ्गसूत्रम् १/-२/३/७८
पुनर्यदैकशरीरेणसर्वपुद्गलाःस्पर्शिता भवन्तितदाद्रष्टव्यः १,क्षेत्रतोबादरोयदाक्रमोक्रमाभ्यां प्रियमाणेन सर्वे लोकाकाशप्रदेशाःस्पृष्टा भवन्ति तदा विज्ञेयः, सूक्ष्मस्तुतदा विज्ञेयो यदैकस्मिन् विवक्षिताकाशखण्डके मृतः पुनर्यदा तस्यानन्तरप्रदेशवृद्धया सर्वंलोकाकाशं व्याप्नोतदा ग्राह्यः २, कालतो बादरो यदोत्सर्पिण्यवसर्पिणीसमयाः क्रमोक्रमाभ्यां प्रियमाणेनालिङ्गिता भवन्ति तदा विज्ञेयः, सूक्ष्मस्तूत्सर्पिणीप्रथमसमयादारभ्य क्रमेणसर्वसमयाम्रियमाणेनयदाछुप्ता भवन्ति तदाऽवगन्तव्यो ३, भावतो बादलो यदाऽडनुभागबन्धाध्यवसायस्थानानि क्रमोक्रमाभ्यां नियमाणेनव्याप्तानि भवन्तितदाऽभिधीयते, अनुभागबन्धाध्यवसायप्रमाणंतुसंयमस्थानावसरे प्रागेवाभ्यधायीति, सूक्ष्मस्तुजघन्यानुभागबन्धाध्यवसायस्थानादारभ्ययदासर्वेष्वपिक्रमेणमृतो भवति तदाऽवसेय इति । तदेवं कलंकलीभावमापन्नोऽन्यो वा नीचैर्गोत्रोदयादनन्तमपि कालं तिर्यक्ष्वास्ते, मनुष्येष्वति तदुदयादेवचावगीतेषु स्थानेषूत्पद्यते, तथा कलंकलीसत्त्वोऽपि द्वीन्दियादिषूत्पन्नः सन् प्रथमसमये एवं पर्यात्युत्तरकालं वोच्चैर्गोत्रंबद्धा मनुष्येष्वसकृदुच्चैर्गोत्रमास्कन्दति, तत्र कदाचित्ततृतीयमङ्गकस्थः पञ्चमभङ्गोपपन्नो वा भवति, ताविमौ-नीचैर्गोत्रं बनात्युच्चैर्गोत्रस्योदयःसत्कर्मतातूमयस्यतृतीयः,पञ्चमस्तूच्चैर्गोत्रंबध्नातितस्यैवोदयःसत्कर्मता तूभयस्य, षष्ठसप्तमभङ्गौ तूपरतबन्धस्य भवतः, अविषयत्वान्न ताभ्यामिहाधिकारः, तौ चेमौबन्धोपरमेउच्चैर्गोत्रोदयः सत्कर्मतातूभयस्येतिषष्ठः, सप्तमस्तुशैलेश्यवस्थायांद्विचरमसमये नीचैर्गोत्रेक्षपितेउच्चैर्गोत्रोदयस्तस्यैवसत्कर्मातेति, तदेवमुच्चावचेषुगोत्रेषुअसकृदुत्पद्यमानेनासुमता पञ्चभङ्गकान्तर्वर्तिनान मानो विधेयो नापि दीनतेति।
तयोश्चौच्चावचयोः गोत्रयोर्बन्धाध्यवसायस्थानकण्डकानि तुल्यानीत्याह-'नो हीणे नो अइरित्ते' यावन्त्युच्चैर्गोत्रेऽनुभावबन्धाध्यवसायस्थानकण्डकानिनीचैर्गोत्रेऽपितावन्त्येव, तानि च सर्वाण्यप्वसुमताऽनादिसंसार भूयो भूयः स्पर्शितानि, तत उच्चैर्गोत्रकण्डकार्थतयाऽसुभृन्न हीनो नाप्यतिरिक्तः, एवं नीचैर्गोत्रकण्डकार्थतयाऽपीति । नागार्जुनीयास्तु पठन्ति-“एगमेगे खलु जीवे अईअद्धाए असई उच्चागोए असंई नीआगोए, कंडगट्ठयाए नो हीणे नो अइरिते" एकैको जीवः खलुशब्दो वाक्यालङ्कारे अतीते कालेऽसकृदुच्चावचेषु गोत्रेषूत्पन्नः, स चोच्तावचानुभागकण्डकापेक्षया न हीनो नाप्यतिरिक्त इति, तथाहि-उच्चैर्गोत्रकण्डकेभ्य एकमविकेभ्योऽनेकभविकेभ्यो वा नीचैर्गोत्रकण्डकानि न हीनानि नाप्यतिरिक्तानीत्यतोऽवगम्योत्कर्षपकर्षों न विधेयौ, अस्य चोपलक्षणार्थत्वात् सर्वेष्वपि मदस्थानेष्वेतदायोज्यं । यतश्चोचावचेषु स्थानेषुकर्मवशादुत्पद्यन्ते, बलरूपलाभादिमदस्थानानांचासमञ्जसतामवगम्य किं कर्तव्यमित्याह-'नोऽपीहए' अपिः सम्भावने स च भिन्नक्रमो, जात्यादीनां मदस्थानानामन्यतमदपि नो 'ईहतापि' नाभिलषेदपिअथवा नो स्पृहयेत्-नावकाङ्क्षदिति । तत्र यधुच्चावचेषु स्थानेष्वसकृदुत्पन्नोऽसुमांस्ततः किमित्याह
'इय संखाय' इत्यादि, इतिरुपप्रदर्शने इति' एतत्पूर्वोक्तनीत्योचावचस्थानोत्पादादिकं 'परिसंखाय' ज्ञात्वा को गोत्रवादी भवेद् ?' यथाममोच्चैर्गोत्रंसर्वलोकमाननीयंनापरस्येत्येवंवादी कोबुद्धिमान् भवेत्?, तथाहि-मयाऽन्यैश्चजन्तुभिः सर्वायपिस्थानान्यनेकशःप्राप्तपूर्वाणीति, तथोच्चैर्गोत्रनिमित्तमानवादी वाको भवेत् ?,न कश्चित्संसारस्वरूपपरिच्छेदीत्यर्थः, किंच-'कंसि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org