________________
१२३
श्रुतस्कन्धः-१, अध्ययनं-२, उद्देशक:र योगपद्याशेषसंशीतिच्छेच्या प्रकर्षेण वेदितः-कथितः प्रतिपादित इतियावत्, एवम्भूतं च मार्गे ज्ञात्वा किंकर्तव्यमित्याह-'जहत्थे'; इत्यादि, तेषुतेष्वात्मबलोपधानादिकेषुकार्येषुसमुपस्थितेषु सत्सु दण्डसमुपादानादिकंपरिहरन् 'कुशलो' निपुणः अवगततत्त्वो यथैतस्मिन् दण्डसमुपादाने स्वमात्मानं 'नोपलिम्पयेः' नतत्रसंश्लेषं कुर्याइति, विभक्तिपरिणामाद्वा एतेन दण्डसमुपादानजनितकर्मणायथानोपलिप्यसे तथा सर्वेः प्रकारैः कुर्यास्त्वम्। इतिशब्दः परिसमाप्तौ, ब्रवीमीति पूर्ववत्॥
अध्ययनं-२ उद्देशकः २ समाप्तः
अध्ययनं-२, उद्देशकः-३:वृ उक्तो द्वितीयोद्देशकः, साम्प्रतं तृतीय आरभ्यते, अस्य चायमाभिसम्बन्धःइहानन्तरोद्देशके संयमेदृढत्वं कार्यमसंयमेचादढत्वमुक्तं, तच्चोभयमपिकषायव्युदासेन सम्पद्यते, तत्रापि मान उत्पत्तेरारभ्य उच्चैर्गोत्रोत्थापितः स्यात् अतस्तद्वयुदासार्थमिदमभिधीयते । अस्य चानन्तरसूत्रेण सम्बन्धः- 'जहेत्थ कुसले नोवलिंपेज्जासि' कुशलो निपुणःसन्नस्मिनुच्चैर्गोत्रभिमाने यथाऽऽत्मानं नोपलिम्पयेस्तथा विदध्यास्त्वं, किंमत्वा?, इत्यतस्तदभिधीयते
मू (७८) से असइं उच्चागोए असइंनीआगोए, नो हीणे नो अइरित्ते, नोऽपीहए, इय संखाय को गोयावाई को माणावाई?, कसि वा एगे गिज्झा, तम्हा नो हरिसे नो कुप्पे, भूएहिं जाण पडिलेह सायं।
वृ 'सेअसइंउच्चागोएअसइंनीआगोएत्ति 'स' इति ससार्यसुमान् 'असकृद्' अनेकशः उच्चैर्गोत्रेमानसत्कारर्हे, उत्पन्नइतिशेषः,तथाअसकृन्नीचैर्गोत्रेसर्वलोकावगीते, पौनःपुन्येनोत्पन्न इति, तथाहि-नीचैर्गोत्रोदयादनन्तमपि कालं तिर्यक्ष्वास्ते, तत्र च पर्यटन् द्विनवतिनामोत्तरप्रकृतिसत्कर्मा संस्तथाविधाध्यवसायोपपत्रः आहारकशरीरतत्सङ्घातबन्धनाङ्गोपाङ्गदेवगत्यानुपूर्वीद्वयनरकगत्यानुपूर्वीद्वयवैक्रियचतुष्टयरूपाएताद्वादशकर्मप्रकृतीनिलेप्याशीतिसत्कर्मा तेजोवायुषूत्पन्नः सन् मनुजगत्यानुपूर्वीद्वयमपि निर्लेप्य तत उच्चैर्गोत्रमुद्वलयति पल्योपमासंख्येयभागेन, अतस्तेजोवायुष्वाद्य एव भङ्गकः, तद्यथा-नीचैर्गोत्रस्य बन्ध उदयोऽपि तस्यैव सत्कम्र्ताऽपीति, ततोऽप्युवृत्तस्यापरैकेन्द्रियगतस्यायमेव भङ्गः, त्रसेष्वप्यपर्याप्तकावस्थायामयमेव, अनिर्लेपिते तूच्चैर्गोत्रे द्वितीयचतुर्थो भङ्गौ, तद्यथा-नीचैर्गोत्रस्य बन्ध उदयोऽपि तस्यैव सत्कर्मता तूभयरूपस्यैवेति द्वितीयः, तथा उच्चैर्गोत्रस्य बन्धो नीचस्योदयः सत्कर्मता तूभयरूपस्येति चतुर्थः, शेषास्तु चत्वारोन सन्त्येव,
तिर्यसूच्चैर्गोत्रस्योदयाभावादितिभावः, तदेवमुच्चैर्गोत्रोद्वलनेन कलंकलीभावमापन्नोऽनन्तं कालमेकेन्द्रियेष्वास्ते, अनुद्वलितेवातियवास्तेऽनन्ताउत्सर्पिण्यवसर्पिणीः,आवलिकाकालासङ्ख्येयभागसमयसंख्यान् पुद्गलपरावनिति, कीशः पुनः पुद्गलपरावर्त इति? उच्यते, यदौदारिकवैक्रियतैजसभाषानापानमनःकर्मसप्तकेन संसारोदरविवरवर्तिनः पुद्गलाः आत्मसात्परिणामिताभवन्ति तदापुद्गलपरावर्तइत्येके, अन्येतुद्रव्यक्षेत्रकालभावभेदाच्चतुर्दा वर्णयन्ति, प्रत्येकमसावपि बादरसूक्ष्मभेदात् द्वैविध्यमनुभवति, तत्र द्रव्यतो बादरो यदौदारिकवैक्रियतैजसकार्मणचतुष्टयेन सर्वपुद्गला गृहीत्वोज्झितास्तदा भवति, सूक्ष्मः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org