________________
१२२
आचाराङ्ग सूत्रम् १/-/२/२/७६
एतदुक्तं भवति तद्वलार्थमपि प्राणिषु दण्डो न निक्षेप्तव्यः इति, एवं कृपणश्रमणार्थमपि वाच्यमिति, एवं पूर्वोक्तैः 'विरूपरूपेः' नानाप्रकारैः पिण्डदानादिभिः कार्यैः 'दण्डसमादान' मिति दण्डयन्ते - व्यापाद्यन्ते प्राणिनो येन स दण्डस्तस्य सम्यगादानं-ग्रहणं समादानं, तदात्मबलादिकं मम नाभविष्यत् यद्यहमेतन्नाकरिष्यमित्येवं 'संप्रेक्षया' पर्यालोचनया एवं संप्रेक्ष्य वा भयात् क्रियते, एवं तावदिहभवमाश्रित्य दण्डसमादानकारणमुपन्यस्तम्, आमुष्मिकार्थमपि परमार्थजानानैर्दण्डसमादानं क्रियत इति दर्शयति- 'पावमोक्खो' त्ति इत्यादि, पातयति पासयतीति वा पापं तस्मान्मोक्षः पापमोक्षः, 'इति' हेतौ, यस्मात्स मम भवीष्यतीति मन्यमानः दण्डसमादानाय प्रवर्त्तत इति, तथाहि हुतभुजि षड्जीवोपघातकारिणि शस्त्रे नानाविधोपायप्राण्युपघातात्तपावविध्वंसनाय पिप्पलशमीसमित्तिलाज्यादिकं शठव्युद्राहितमतयो जुह्वति, तथा पितृपिण्डदानादी बस्तादिमांसोपस्कृतभोजनादिकं द्विजातिभ्य उपकल्पयन्ति तद्युक्तशेषानुज्ञातं स्वतोऽपि भुञ्जते, तदेवं नानाविधैरुपायैरज्ञानोपहतबुद्धयः पापमोक्षार्थं दण्डोपादानेन तास्ताः क्रियाः प्राण्युपघातकारिणीः समारभमाणाः अनेकभवशतकोटीदुम्र्म्मोचमघमेवोपाददत इति । किञ्च 'अदुवा' इत्यादि, पापमोक्ष इति मन्यमानो दण्डमादत्त इत्युक्तम्, अथवा आशंसनम् आशंसा - अप्राप्तप्रापणाभिलाषस्तदर्थं दण्डसमादानमादत्ते, तथाहि ममैतत् परुत्परारि वा प्रेत्य वोपस्थास्यते इत्याशंसया क्रियासु प्रवर्त्तते, राजानं वाऽर्थाशाविमोहितमना अवलगति, उक्तं च
॥१॥“आराध्य भूपतिमवाप्य ततो धनानि, मोक्ष्यामहे किल वयं सततं सुखानि । इत्याशया धनविमोहितमानसानां, कालः प्रयाति मरणावधिरेव पुंसाम एहि गच्छ पतोत्तिष्ठ, वद मौनं समाचर ।
इत्याद्याशाग्रहग्रस्तैः क्रीडन्ति धनिनोऽर्थिभिः”
॥२॥
"
इत्यादि । तदेवं ज्ञात्वा किं कर्त्तव्यमित्याह
मू (७७) तं परिण्णाय मेहावी नेव सयतं एएहिं कज्जेहिं दंडं समारंभिज्जा नेव अन्नं एएहिं कज्जेहिं दंडं समारंभाविज्जा एएहिं कज्जेहिं दंडं समारंभतंपि अन्नं न समणुजाणिज्जा, एस मग्गे आरिएहिं पवेइए, जहेत्थ कुसले नोवलिंपिज्जासि-त्तिबेमि ॥
वृ ' तदिति सर्वनाम प्रक्रान्तपरामर्शि, 'तत्' शस्त्रपरिज्ञोक्तं स्वकायपरकायदिभेदभिन्नं शस्त्रम्, इह वा यदुक्तम् अप्रशस्तगुणमूलस्थानं-विषयकषायमातापित्रादिकं, तथा कालाकालसमुत्थनक्षणपरिज्ञानश्रोत्रादिविज्ञानप्रहाणादिकं तथाऽऽत्मबलाधानाद्यर्थं च दण्डसमादानंज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया परिहरेत् 'मेधावी' मर्यादावर्त्ती, ज्ञातहेयोपादेयः सन् किं कुर्यादित्याह-'नेव सयं' इत्यादि, नैव 'स्वयम्' आत्मना एतैः - आत्मबलाधानादिकैः 'कार्येः' कर्त्तव्यैः समुपस्थितैः सद्मिः 'दण्डं' सत्त्वोपघातं समारभेत्, नाप्यन्यमपरमेभिः कार्यौर्हिसानृतादिकं दण्डं समारम्भयेत्, तथा समारभमाणमप्यपरं योगत्रिकेण न समनुज्ञापयेद् एष चोपदेशस्तीर्थकृद्मिरभिहित इत्येतत् सुधर्म्मस्वामी जम्बूस्वामिनमाहेति दर्शयति- 'एस' इत्यादि, 'एष' इति ज्ञानादियुक्तो भावमार्गो योगत्रिककरणत्रिकेण दण्डसमादानपरिहारलक्षणो वा 'आर्येः' आराघाताः सर्वहयधर्मेभ्य इत्यार्याः संसारार्णवतटवर्त्तिनः क्षीणघातिकर्म्माशाः संसारोदरविवरवर्त्तिभावविदः तीर्थकृतस्तैः 'प्रकर्षेण' सदेवमनुजायां पर्षदि सर्वस्वभाषानुगामिन्या वाचा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org