SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ १२१ श्रुतस्कन्धः - १, अध्ययनं-२, उद्देशक:२ ॥१॥ "धावेइ रोहणं तरइ सायरंभमइ गिरिणिगुंजेसुं। मारेइ बंधवंपिहुपुरिसो जो होइ धणलुद्धो ॥२॥ अडइ बहुं वहइ भरं सहइ छुहं पावमायरइ धिट्ठो। कुलसीलजाइपच्चयधिइंच लोभदुओ चयइ " इत्यादि, तदेवंकुतश्चिनिमित्तात्सहापिलोभादिना निष्क्रम्यपुनर्लोभादिपरित्यागः कार्यः, अन्यस्तु लोभं विनापि प्रव्रज्यांप्रतिपद्यत इति दर्शयति मू (७६) विणाइत्तु लोभं निक्खम्म एस अकम्मे जाणइ पासइ, पडिलेहाए नावकंखइ, एसअणगारिति पवुच्चइ, अहोयराओपरितप्पमाणे कालाकालसमुट्ठाइसंजोगट्ठीअट्ठालोभी आलुपे सहस्साबारे विणिविट्ठचित्ते इत्य सत्थे पुणो पुणो से आयबले से नाइबले से मित्तबले से पिञ्चबले से देवबले से रायबले से चोरबले से अतिहिबले से किविणबले से समणबले, इचेएहिं विरूवरूवेहिं कजेहिं दंडसमायाणं संपेहाए भयाकज्जइ, पावमुक्खुत्तिमन्त्रमाणे, अदुवा आसंसाए वृ कश्चिद्मरतादिनिःशेषतोलोभापगमाद्विनापिलोभं निष्कम्य' प्रव्रज्यांप्रतिपद्य, पाठान्तरं वा 'विणइत्तु लोभ' सञ्जवलनसंज्ञकमपि लोभं 'विनीय' निर्मूलतोऽपनीय एष एवंभूतः सन् 'अकर्मा' अपगतघातिकर्मचतुष्टयाविभूतानावरणज्ञानो विशेषतोजानाति सामान्यतः पश्यति, एतदुक्तं भवति-एवंभूतो लोभो येन तत्क्षये मोहनीयक्षये चावश्यं घातिकर्मक्षयस्तस्मिंश्च निरावरणज्ञानसद्मावस्ततोऽपि भवोपग्राहिकपिगम इत्यतो लोभापगमे अकर्मेत्युक्तम् । यतश्चैवम्भूतोलोभोदुरन्तस्तद्धानौचावश्यकर्मक्षयस्ततः किंकर्तव्यमित्याह- पडिलेहाए' इत्यादि, प्रत्युपेक्षणया-गुणदोषपर्यालोचनयोपपन्नः सन्नथवा लोभविपाकं प्रत्युपेक्ष्य-पर्यालोच्य तदभावे गुणंच लोभं 'नावकाङ्क्षति'नाभिलषतीति, यश्चाज्ञानोपहतान्तःकरणोऽप्रशस्तमूलगुणस्थानवर्ती विषयकषायाधुपपन्नस्तस्यपूर्वोक्तं विपरीततयासर्वंसंतिष्ठते, तथाहि-अलोभलोभेनजुगुप्समानो लब्धान्कामानवगाहते, लोभमनपनीय निष्क्रम्य पुनरपिलोभैकमनाः सकानजानातिनापि पश्यति, अपश्यंश्चाप्रत्युपेक्षणयाऽभिकाङ्क्षति __ यच्च प्रथमोद्देशकेऽप्रशस्तमूलगुणस्थानमवाचितच्च वाच्यमिति, आह च-'अहोयराओ' इत्यादि, अहोरात्रंपरितप्यमानः कालाकालसमुत्थायीसंयोगार्थी अर्थालोभीआलुम्पः सहसाकारो विनिविष्टचित्तःअत्र-शस्त्रो पृथिवीकायाधुपघातकारिणि पौनःपुन्येन वर्तते।किंच-सेआयबले; आत्मानोबलं-शक्त्युपचयआत्मबलं तन्मे भावीतिकृत्वा नानाविधैरुपायेरात्मपुष्टयेतास्ताः क्रियाः ऐहिकामुष्मिकोपघातकारिणीर्विधत्ते, तथाहि मांसेन पुष्यतेमांस मितिकृत्वापञ्चेन्द्रियघातादावपि प्रवर्तते, अपराश्च लुम्पनादिकाः सूत्रेणैवाभिहिताः, एवं च 'ज्ञातिबलं' स्वजनबलं मे भावीति, तथा तन्मित्रबलं मे भविष्यति येनाहमापदं सुखेनैव निस्तरिष्यामि, तोत्यबलं भविष्यतीति बस्तादिकमुपहन्ति, तद्वा देवबलं भावीति पचनपाचनादिकाः क्रिया विधत्ते, राजबलं वा मे भविष्यतीति राजानमुपचरति, चौरग्रामे वा वसति चौरभागं वा प्राप्स्यामीति चौरानुपचरति, अतिथिबलं वा मे भविष्यतीत्यतिथीनुपचरति, अतिथिर्हि निःस्पृहोऽभिधीयते इति, उक्तंच॥१॥ "तिथिपर्वोत्स्वाः सर्वे, त्यक्ता येन महात्मना । अतिथिं तं विजानीयाच्छेषमभ्यागतं विदुः" For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy