________________
१२०
आचाराङ्गसूत्रम् १/-/२/२/७४ ततोलब्धान्कामान् ‘अभिगाहन्ते' सेवन्ते, तिव्यत्ययेन चैकवचनमिति, अत्र चान्त्यव्रतोपादानात् शेषाण्यपि ग्राह्याणि, अहिंसका वयं भविष्यामएवममृषावादिन इत्याद्यप्यायोज्यम्।तदेवं शैलूषा इवान्यथावादिनोऽन्यथाकारिणः कामार्थमेव तांस्तान् प्रव्रज्याविशेषान्बिभ्रति, उक्तंच॥१॥ "स्वेच्छाविरचितशास्त्रैःप्रवज्यावेषधारिभिः क्षुद्रैः ।
नानाविधैरुपायेरनाथवन्मुष्यते लोकः" इत्यादि । तदेवं प्रव्रज्यावेषधारिणो लब्धान्कामानवगाहन्तेतल्लाभार्थंचतदुपायेषु प्रवर्तन्ते इत्याह- अणाणाए' इत्यादि, 'अनाज्ञया' स्वैरिण्या बुद्धया 'मुनय' इति मुनिवेषविडम्बिनः कामोपायान् 'प्रत्युपेक्षन्ते' कामोपायारम्भेषुपौनःपुन्येनलगन्तीति, आहच-'एत्थ' इत्यादि, 'अत्र' अस्मिन् विषयाभिष्वङ्गाज्ञानमये भावमोहे पौनःपुन्येन 'सन्नाः' विषण्णा निमग्नाः पङ्कावमग्ना नागा इवात्मनमाक्रष्टुं नालमिति, आहच-'नो हव्वाए नो पाराए' यो हिमध्येमहानदीपूरं निमग्नो भवत्यसौ नारातीयतीराय नापि पारेमहानदीपूरमिति, एवमत्रापि कुतश्चिन्निमितात्त्यक्तगृहगृहिणीपुत्रधनधान्यहिरण्यरलकुप्यदासादिविभव आकिञ्चन्यं प्रतिज्ञायारातीयतीरदेश्याद्गृहवाससाख्यान्निर्गतःसन्नो हव्वाएत्तिभवति, पुनरपि वान्तभोगाभिलाषितया यथोक्तसंयमाभावेन तक्रियाया विफलत्वात् नो पाराए त्ति भवति, उभयतो मुक्तबन्धना मुक्तोलीवोभयभ्रष्टो न ग्रहस्थो नापि प्रव्रजित इत्युक्तं भवति, उक्तंच॥१॥ “इन्द्रियाणि न गुप्तानि, लालितानिन चेच्छया।
मानुष्यं दुर्लभं प्राप्य, न भुक्तं नापि शोषितम् " इति । ये पुनरप्रशस्ततिनिवृत्ताः प्रशस्तरतिमधिशयानास्ते किंभूता भवन्तीत्याहमू (७५) विमुत्ता हु ते जणा जे जणा पारगामिणो, लोभमलोभेण दुगुंछमाणे लद्धे कामे
नाभिगाहइ।
वृ विविधम्-अनेकप्रकारं द्रव्यतो धनस्वजनानुषङ्गाद्मद्मावतो विषयकषायादिभ्योऽनुसमयं मुच्यमाना एवभाविनि भूतवदुपचारान्मुक्ता विमुक्ताः तेजना ये जनाः सर्वस्वजनभूता निर्ममत्वाः पारगामिनो भवन्ति, पारो-मोक्षः संसारार्णवतटवृत्तित्वात्तत्कारणानि ज्ञानदर्शनचारित्राण्यपि पार इति, भवति हि तादात्ताच्छब्धं यथा तन्दुलान् वर्षति पर्जन्यः, अतस्तत्पारंज्ञानदर्शनचारित्राख्यं गन्तुंशीलं येषां ते पारगामिनः, ते मुक्ता भवन्तीतिपूर्वेण सम्बन्धकथं पुनः सम्पूर्णपारगामित्वं भवतीत्याह
- 'लोभं' इत्यादि, इह हि लोभः सर्वसङ्गानां दुस्त्यजो भवति, तथाहि-क्षपकश्रेण्यन्तर्गतस्यापगताशेषकषायस्यापिखण्डशःक्षिप्यमाणोऽप्यनुबध्यत इति, अतस्तं लोभ, तद्विपक्षणअलोभेन 'जुगुप्समानो' निन्दन्परिहरन् किं करोतीत्याह-लद्धे' इत्यादि, लब्धान्' प्राप्तनिच्छामदनरूपान् कामान 'नाभिगाहते' न सेवते, यो हि शरीरादावपि निवृत्तलोभः स कामाभिष्वङ्गवान्न भवति, ब्रह्मदत्तामन्त्रितचित्रवदिति, प्रधानान्त्यलोभपरित्यागेनचोपसर्जनाधस्तनपरित्यागोद्रष्टव्यः, तद्यथाक्रोधं क्षान्त्या जुगुप्समानो मानं माईवेन मायामार्जवेनेत्याद्यप्यायोज्यं, लोभोपादानं तु सर्वकषायप्रधान्यख्यापनार्थमुपाददे, तथाहि-तत्प्रवृत्तः साध्यासाध्यविवेकविकलः कार्याकार्यविचाररहितः सन्नर्थकदत्तष्टिः पापोपादानमास्थाय सर्वाः क्रियाः अधितिष्ठतीति, तदुक्तम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org