________________
श्रुतस्कन्धः - १, अध्ययनं-२, उद्देशक:२
११९
तार
॥१॥ अज्ञानान्धाश्चटुलवनितापाङ्गविक्षेपितास्ते,
कामे सक्ति दधति विभवाभोगतुङ्गार्जने वा। विद्वच्चित्तं भवति हि महन्मोक्षमार्गेकतानं,
नाल्पस्कन्धे विटपिनि कषत्यसभित्तिं गजेन्द्रः " नेतन्मृष्यामहे, यतो ह्यवाप्तचारित्रस्यायमुपदेशो दित्सितः, चारित्रावाप्तिश्च न ज्ञानमृते, तत्कार्यत्वाच्चारित्रस्य, नच ज्ञानारत्योर्विरोधः, अपितुरत्यरत्योः, ततश्चसंयमगता रतिरेवारत्या बाध्यते न ज्ञानम्, अतो ज्ञानिनोऽपि चारित्रमोहनीयोदयात्संयमे स्यादेवारतिः, यतो ज्ञानमप्यज्ञानस्यैव बाधकं, न संयमारतेः, तथा चोक्तम्॥१॥ ज्ञानं भूरि यथार्थवस्तुविषयं स्वस्य द्विषो बाधकं,
रागारातिशमाय हेतुमपरं युकते न कर्तृ स्वयम् । दीपो यत्तमसि व्यनक्ति किमु नो रूपं स एवेक्षतां,
सर्वः स्वं विषयं प्रसाधयति हि प्रासङ्गिकोऽन्यो विधिः" तथेदमपिभवतोन कर्णविवरमगाद्यथा-'बलवानिन्द्रियग्रामः, पण्डितोऽप्यत्रमुह्यती'त्यतो यत्किञ्चिदेतत्, अथवा नारत्यापन्न एवैवमुच्यते, अपि त्वयमुपदेशो मेधावी संयमविषये मा विधादरतिमिति । संयमारतिनिवृत्तश्च सन् कं गुणमवाप्नोतीत्याह-'खणंसि मुक्के' परमनिरुद्धः कालः क्षणःजरत्पशाटिकापाटनदृष्टान्तसमयप्रसाधितः तत्र मुक्तो विभक्तिपरिणामाद्वाक्षणेनअष्टप्रकारेण कर्मणा संसारबन्धनैर्वा विषयाभिष्वङ्गस्नेहादिभिर्मुक्तो भरतवदिति, ये पुनरनुपदेशवर्तिनः कण्डरीकाद्यास्ते चतुर्गतिकसंसारन्तर्वर्तिनोदुःखसागरमधिवसन्तीत्याहच
मू (७४) अणाणाय पुट्ठावि एगे नियट्टति, मंदा मोहेण पाउडा, अपरिग्गहा भविस्सामो समुट्ठाय लद्धे कामे अभिगाहइ, अणाणाए मुणिणो पडिलेहंति, इत्थ मोहे पुणो पुणो सन्ना नो हव्वाए नो पाराए।
वृ आज्ञाप्यत इत्याज्ञा-हिताहितप्राप्तिपरिहाररूपतया सर्वज्ञोपदेशस्तद्विपर्ययोऽनाज्ञा तया अनाज्ञया सत्या 'स्पृष्टाः' परीषहोपसर्गः,अपिशब्दः सम्मावनायां सच भिन्नक्रमोनिवर्तन्त इत्यस्मादनन्तरंद्रष्टव्यः, 'एके मोहनीयोदयात्कण्डरीकादयोन सर्वेसंयमात्समस्तद्वन्द्वोपशमरूपात् निवर्तन्ते अपीति, सम्भाव्यत एतन्मोहोदयस्येत्यपिशब्दार्थः, किंभूताः सन्तो निवर्तन्त इत्याह'मन्दा' जडाअपगतकर्तव्याकर्त्तव्यविवेकाः, कुत एवंभूता?, यतो मोहेन प्रावृता' मोहः-अज्ञानं मिथ्यात्वमोहनीयं वा तेन प्रावृता-गुण्डिताः, उक्तंच॥१॥ “अज्ञानं खलु कष्टं क्रोधादिभ्योऽपिसर्वपापेभ्यः ।
अर्थ हितमहितं वा न वेत्ति येनावृतो लोकः" इत्यादि, तदेवमवाप्तचारित्रोऽपि कर्मोदयात्परीषहोदयेऽङ्गीकृतलिङ्गःपश्चाद्मावतामालम्बत इत्युक्तम् । अपरे तु स्वरुचिविरचितवृत्तयो नानाविधैरुपायैर्लोकादर्थं जिघृक्षवः किल वयं संसारोद्विग्ना मुमुक्षवस्तेषु तेषु आरम्भविषयाभिष्वङ्गेषु प्रवन्तत इति दर्शयति-'अपरिग्गहा;' इत्यादि, परिः-समन्तात्मनोवाक्कायकर्मभिर्गृह्यत इतिपरिग्रहः सयेषांनास्तीत्यपरिग्रहा एवंभूता वयं भविष्याम इति शाक्यादिमतानुसारिणः स्वयूथ्या वा 'समुत्थाय' चीवरादिग्रहणं प्रतिपद्य,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org