________________
आचाराङ्ग सूत्रम् १/-/२/२/७३
न दृढत्वं भवेदित्यतोऽरत्यादिव्युदासेन यथा संयमे दृढत्वं भवति तथाऽनेन प्रतिपाद्यते, अथवा यथाप्रकारं कर्म्मापहीयते तथा अस्मिन्नध्ययने प्रतिपाद्यते इत्यध्यनार्थाधिकारेऽभ्यधायि, तच्च कथं क्षीयत इत्याह
मू (७३) अरई आउट्टे से मेहावी, खणंसि मुक्के।
बृ अस्य चानन्तरसूत्रेण सम्बन्धो वाच्यः, स चायम्- 'आयट्टं समणुवासेज्जासि' आत्मार्थं संयमं सम्यक्तयाकुर्यात्, तत्रकदाचिदरत्युद्मवो भवेत्तदर्थमाह-'अरइं' इत्यादि परम्परसूत्रसम्बन्धस्तु 'खणं जाणाहि पंडिए' क्षणं चारित्रावसरमवाप्यारतिं न कुर्यादित्याह - 'अरई' इत्यादि, आदिसूत्रसम्बन्धस्तु 'सुअं मे आउसंतेगं भगवया एवमक्खायं' किं तच्छ्रुतमित्याह-'अरई आउट्टे से मेहावी' रमणं रतिस्तदभावोऽरतिस्तां पञ्चविधाचारविषयां मोहोदयात् कषायाभिष्वङ्गजनितां मातापितृकलत्राद्युत्थापितां 'स' इत्यरतिमान् 'मेधावी' विदितासारसंसारस्वभावः सन् आवर्त्तेत अपवर्त्तेत निवर्त्तयेदित्युक्तं भवति, संयमे चारतिर्न विषयाभिष्वङ्गरतिमृते कण्डरीकस्येवेत्यत इदमुक्तं भवति-विषयाभिष्वङ्गेरतिं निवर्त्तेत, निवर्त्तनं चैवमुपजायते यदि दशविधचक्रवालसामाचारीविषया रतिरुत्पद्यते पौण्डरीकस्येवेति, ततश्चेदमुक्तं भवति-संयमे रतिं कुर्व्वीत, तद्विहितरतेस्तु न किञ्चिद्बाधायै, नापीहापरसुखोत्तरबुद्धिरिति, आह च
॥ १ ॥क्षितितलशयनं वा प्रान्तमैक्षाशनं वा, सहजपरिभवो वा नीचदुर्भाषितं वा । महति फलविशेषे नित्यमभ्युद्यतानां, न मनसि न शरीरे दुःखमुत्पादयन्ति तणसंथारनिसण्णोऽवि मुनिवरो भठ्ठारागमयमोहो ।
॥२॥
जं पावइ मुत्तिसुहं तं कत्तो चक्कवट्टीवि ?
इत्यादि च । अत्र हि चारित्रमोहनीयक्षयोपशमादवाप्तचारित्रस्य पुनरपि तदुदयादवदिधाविषोरनेन सूत्रेणोपदेशो दीयते तच्चावधावनं संयमात् यैर्हेतुभिर्भवति तान्नियुक्तिका गाथयाऽऽचष्टेनि [१९७ ]
११८
बिइउद्देसे अदढो उ संजमे कोइ हुज अरईए । अन्नाणकम्मलोभाइएहिं अज्झत्थदोसेहिं ॥
वृ इह हि प्रथमोद्देशके बह्वयो नियुक्तिगाथा अस्मिंस्तिवयमेवैकेत्यतो मन्दबुद्धेः स्यादारेका यथा इयमपि तत्रत्यैवेत्यतो विनेयसुखप्रतिपत्त्यर्थं द्वितीयोद्देशकग्रहणमिति, कश्चित्कण्डरीकदेशीयः 'संयमे' सप्तदशभेदभिन्ने 'अध्ढ : ' शिथिलो मोहनीयोदयादरत्युद्मवाद्मवेत्, मोहनीयोदयोऽप्याध्यात्मिकैर्दोषैर्भवेत्, ते चाध्यात्मदोषा अज्ञानलोभादयः, आदिशब्दादिच्छामदनकामानां परिग्रहो, मोहस्यज्ञानलोभकामाद्यात्मकत्वात्तेषां चाध्यात्मिकत्वादिति गाथार्थः ॥ ननु चारतिमतो मेधाविनोऽनेन सूत्रेणोपदेशो दीयते यथा-संयमारतिमपवर्त्तेत, मेधावी चात्र विदितसंसारस्वभावो विवक्षितो, यश्चैवंभूतोनासावरतिमान् तद्वांश्चेत्र विदितवेद्य इत्यनयोः सहानवस्थानलक्षणेन विरोधेन विरोधाच्छायातपयोरिव नैकत्रावस्थानम्, उक्तं च
11911 " तज्ज्ञानमेव न भवति यस्मिन्नुदिते विभाति रागगणः । तमसः कुतोऽस्ति शक्तिर्दिनकरकिरणाग्रतः स्थातुम्?"
इत्यादि, यो ज्ञानी मोहोपहतचेताः स विषयाभिष्वङ्गात्संयमे सर्वद्वन्द्वप्रत्यनीके रत्यभावं विदध्याद्, आह च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org