SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - १, अध्ययनं - २, उद्देशक : १ कर्म्मणि प्रवर्द्धमानेषु कण्डकेषु देशविरत्यादेरवसर इति नोकर्म्मभावक्षणस्त्वालस्यमोहावर्णवादस्तम्भाद्यभावे सम्यकत्वाद्यवाप्त्यवसर इति, आलस्यादिभिस्तूपहतो लब्ध्वाऽपि संसारलङ्घनक्षमं मनुष्यभवं बोध्यादिकं नाप्नोतीति, उक्तं च 11911 ११७ "आलस्समोहऽवन्ना थंभा कोहा पमाय किविणत्ता । भयसोगा अन्नाणा विक्खेव कुऊहला रमणा एएहिं कारणेहिं लद्धूणं सुदुल्लहंपि माणुस्सं । न लहइ सुइं हिअरिं संसारुत्तारणिं जीवो' "" तदेवं चतुर्विधोऽपि क्षण उक्तः, तद्यथा- द्रव्यक्षणोजङ्गमत्वादिविशिष्टंमनुष्यजन्म क्षेत्रक्षण आर्यक्षेत्रं कालक्षणो धर्म्मचरणकालो भावक्षणः क्षयोपशमादिरूपः । इत्येवंभूतमवसरमवाप्यात्मार्थं समनुवासयेदित्युत्तरेण सम्बन्धः । किंच मू (७२) जाव सोयपरिण्णाणा अपरिहीणा नेत्तपरिण्णाणा अपरिहीणा घाणपरिण्णाणा अपरिहीणा जीहपरिण्णाणा फरि इचेएहिं विरूवरूवेहिं पण्णाणेहिं अपरिहीणेहिं आयटुं संमं समणुवासिज्जासि - तिबेमि ॥ वृ यावदस्य विशरारोः कायापशदस्य श्रोत्रविज्ञानानि जरसा रोगेण वा अपरिहीनानि भवन्ति, एवं नेत्रघ्राणरसनस्पर्शविज्ञानानि न विषयग्रहणस्वभावतया मान्द्यं प्रतिपद्यन्ते, इत्येतैः 'विरूपरूपैः 'इष्टानिष्टरूपतया नानारूपैः 'प्रज्ञानैः' प्रकृष्टैर्ज्ञानैरपरिक्षीयमाणैः सद्मिः किं कुर्याद् ? इत्याह-‘आयट्टं' इत्यादि, आत्मनोऽर्थ आत्मार्थः, स च ज्ञानदर्शनचारित्रात्मकः, अन्यस्तवनर्थ एव, अथवाऽऽत्मने हितं - प्रयोजनमात्मार्थं, तच्च चारित्रानुष्ठानमेव, अथवा आयतः - अपर्यवसानान्मोक्ष एव, सचासावर्थश्चायतार्थोऽतस्तं, यदि वाऽऽयत्तो - मोक्षः अर्थः- प्रयोजनंयस्य दर्शनादित्रयस्य तत्तथा 'समनुवासयेत्' इति 'वस निवासे' इत्येतस्माद्धेतुमण्णिजन्ताल्लिट्सप् सं- सम्यग् यथोक्तानुष्ठानेन अनु-पश्चादनभिक्रान्तं वयः संप्रेक्ष्य क्षणम्-अवसरं प्रतिपद्य श्रोत्रादिविज्ञानानां वा प्रहीणतामधिगम्य तत आत्मार्थं 'समनुवासयेः' आत्मनि विदध्याः । अथवा 'अर्थवशाद् विभक्तिपुरुषपरिणाम' इतिकृत्वा तेन वा आत्मार्थेन ज्ञानदर्शनचारित्रात्मकेनात्मानं 'समनुवासयेद् भावयेद्रञ्जयेत्, आयतार्थं वा मोक्षाख्यं सम्यग् अपुनरागमनेनान्विति यथोक्तानुष्ठानात्पश्चादात्मना 'समनुवासयेद् अधिष्ठापयेद् । 'इतिः' परिसमाप्तौ ब्रवीमीति सुधर्मस्वामी जम्बूस्वामिनमिदमाह, यद्भगवता श्रीवर्द्धमानस्वामिनाऽर्थतोऽभ्यधायि तदेवाहं सूत्रात्मना वच्मि अध्ययनं - १, उद्देशकः १ समाप्त : ॥२॥ -: अध्ययन - २, उद्देशक :- २ उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीयस्य व्याख्या प्रतन्यते, अस्य चायमभिसम्बन्धः, इह विषयकषायमातापित्रादिलोकविजयेन मोक्षावाप्तिहेतुभूतं चारित्रं यथा सम्पूर्णभावमनुभवत्येवंरूपोऽध्ययनार्थाधिकारः प्राङ्नरदेशि, तत्र मातापित्रादिलोकविजयेन रोगजराधनभिभूतचेतसाऽऽत्मार्थ:- संयमोऽमनुष्ठेय इत्येतत्प्रथमोद्देशकेऽभिहितम् इहापि तस्मिन्नेव संयमे वर्त्तमानस्य कदाचिन्मोहनीयोदयादरतिः स्याद्, अज्ञानकर्म्मलोभोदयाद्वाऽध्यात्मदोषेण संयमे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy