________________
श्रुतस्कन्धः - १, अध्ययनं-२, उद्देशकः१
११३ स्तदपवादाअनायाचष्टे, आह च-‘सो वा' इत्यादि, वाशब्दः पूर्वापेक्षया पक्षान्तरं दर्शयति, ते वा निजास्तं परिवदन्ति, स वा जराजर्जरितदेहस्तानिजाननेकदोषोद्घट्टनतया परिवदेत्-निन्देद्, अथवा खिद्यमानार्थतया तानसाववगायति-परिभवतीत्यर्थः । येऽपिपूर्वकृतधर्मवशात्तं वृद्धं न परिवदन्ति तेऽपि तद्दुःखापनयनसमर्था न भवन्ति, आह च-'नाल'मित्यादिनालं न समर्थाः तेपुत्रकलत्रादयः, तवेति प्रत्यक्षभावमुपगतं वृद्धमाह, त्राणाय शरणाय वेति, तत्रापत्तरणसमर्थं त्राणमुच्यते, यथा महाश्रोतोभिरुह्यमानः सुकर्णधाराधिष्ठितं प्लवमासाद्यस्तरपतीति, शरणं पुनर्यदवष्टम्भान्निर्भयैः स्थीयते तदुच्यते, तत्पुनर्दुर्गंपर्वतः पुरुषोवेति, एतदुक्तंभवति-जराभिभूतस्य न कश्चित् त्राणाय शरणाय वा, त्वमपि तेषां नालं त्राणाय शरणाय वेति, उक्तं च॥१॥ “जन्मजरामरणभयैरभिद्रुते व्याधिवेदनाग्रस्ते
जिनवरवचनादन्यत्र नास्ति शरणं क्वचिल्लोके" इत्यादि, स तु तस्यामवस्थायां किम्भूतो भवतीत्याह-‘से न हस्साए' इत्यादि, ‘स' जराजीर्णविग्रहो न हास्यायभवति, तस्यैव हसनीयत्वात् न परान् हसितुंयोग्यो भवतीत्यर्थः, स च समक्ष परोक्षं वा एवमभिधीयते जनैः-किं किलास्य हसितेन हास्यास्पदस्येति, न च क्रीडायै-न चलङ्घनवल्गनास्फोटनक्रीडानांयोग्योऽसौभवति, नापिरत्यै भवति, रतिरिहविषयगता गृह्यते, सा पुनर्ललनावगूहनादिका, तथाभूतोऽप्यवजुगूहिषुः स्त्रीभिरभिधीयते-न लज्जते भवान्न पश्यति आत्मानं नावलोकयति शिरः पलितभस्मावगुण्डितं मां दुहितृभूतमेवं गुहितुमिच्छसीत्यादिवचसामास्पदत्वान्न रत्यै भवति, न विभूषायै, यतो विभूषितोऽपि प्रततचर्मवलीकः स नैव शोभते, उक्तंच॥१॥ “न विभूषणमस्य युज्यते, न च हास्ये कुत एव विभ्रमः?।
अथ तेषु च वर्तते जनो, ध्रुवमायाति परां विडम्बनाम ॥२॥ जंजं करेइ तं तं न सोहए जोव्वणे अतिक्कते।
पुरिसस्स महिलियाइ व एक्कं धम्मं पमुत्तूणं" -गतमप्रशस्तं मूलस्थानं, साम्प्रतं प्रशस्तमुच्यते
मू (६६) इच्चेवं समुट्ठिए अहोविहाराए अंतरं च खलु इमं सपेहाए धीरे मुहुत्तमवि नो पमायए वओ अच्चेति जोव्वणं च ।
वृ अथवा यत एवं ते सुहृदो नालंत्राणाय शरणाय वा अतः किं विदध्यादित्याह-'इच्छेव' मित्यादि, 'इतिः' उपप्रदर्शने, अप्रशस्तमूलगुणस्थाने वर्तमानोजराभिभूतो न हास्यायन क्रीडायै न रत्यै न विभूषायै प्रत्येकं च शुभाशुभकर्मफलं प्राणिनामित्येवं मत्वा समुत्थितः-सम्यगुत्थितः शस्त्रपरिज्ञोक्तं मूलगुणस्थानमधितिष्ठन् अहो-इत्याश्चर्ये विहरणं विहारः आश्चर्यभूतो विहारो अहोविहारो-यथोक्तसंयमानुष्ठानं तस्मै अहोविहारायोत्थितः सन् क्षणमपिनोप्रमादयेदित्युत्तरेण सण्टङ्कः, किंच-'अंतरंचे'त्यादि, अन्तरमित्यवसरः, तच्चार्यक्षेत्रसुकुलोत्पत्तिबोधिलाभसर्वात्यादिकं, चः समुच्चये, खलुरवधारणे, ‘इम'मित्यनेनेदमाह-विनेयस्तपःसंयमादाववसीदन् प्रत्यक्षभावापन्नमार्यक्षेत्रादिकमन्तरमवसरमुपदयाभिधीयतेतवायमेवम्भूतोऽवसरोऽनादौ संसारे पुनरतीव सुदुर्लभएवेति, अतस्तमवसरं 'संप्रेक्ष्य'पर्यालोच्यधीरः सन्मुहूर्तमप्ययेकंनो 'प्रमादयेत्' प्रमादवशगो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org