SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ १११ श्रुतस्कन्धः-१, अध्ययनं-२, उद्देशक: येनोपकारः क्रियते तदुपकरणं, तच्चेन्द्रियकार्यसमर्थं, सत्यामपि निर्वृत्तावनुपहतायां मसूराकृतिरूपायां तस्योपघातान्न पश्यति, तदपि निवृत्तिवद् द्विधा, तत्राभ्यन्तरमक्ष्णस्तावत् कृष्णशुल्कमण्डलं बाह्यमपि पत्रपक्ष्मद्वयादि, एवं शेषेष्वप्यायोजनीयमिति भावेन्द्रियमपि लब्ध्युपयोगभेदात् द्विधा, तत्र लब्धिनिदर्शनावरणीयक्षयोपशमरूपा यत्सन्निधानादात्मा द्रव्येन्द्रियनिर्वृत्तिप्रति व्याप्रियते, तन्निमित्तआत्मनो मनस्साचिव्यादर्थग्रहणं प्रति व्यापार उपयोग इति, तदत्र सत्यां लब्धौ निवृत्त्युपकरणोपयोगाः, सत्यां च निर्वृत्तावुपकरणोपयोगौ, सत्युपकरण उपयोग इति, एतेषां च श्रोत्रादीनां कदम्बकमसूरकलम्बुकापुष्पक्षुरप्रनानासंस्थानताऽवगन्तव्येति, विषयश्च श्रोत्रेन्द्रियस्यद्वादशभ्योयोजनेभ्यआगतं शब्दं गृह्णाति चक्षुरप्येकविंशतिषु लक्षेषु सातिरेकेषु व्यवस्थितं प्रकाशकं प्रकाश्यं तु सातिरेकयोजनलक्षस्थितं रूपं गृह्याति, शेषाणितु नवभ्यो योजनेभ्य आगतं स्वविषयं गृह्णान्ति, जघन्यतस्त्वकुलासङ्ख्येयभागविषयत्वं सर्वेषाम्, अत्रच सोयपरिण्णाणेहिं परिहायमाणेही'त्यादि य उत्पत्तिं प्रति व्यत्येनेन्दियाणामुपन्यासः स एवमर्थं द्रष्टव्यः-इह संज्ञिनः पञ्चेन्द्रियस्य उपदेशदानेनाधिकृतत्वादुपदेशश्चश्रोत्रेन्द्रियविषयइतिकृत्वातत्पर्याप्तौ चसर्वेन्द्रियपर्याप्तिःसूचिता भवति । श्रोत्रादिविज्ञानानि च वयोऽतिक्रमे परिहीयन्ते, तदेवाह-'अभिकंत'मित्यादि, अथवा श्रोत्रादिविज्ञानैरपचितैः करणभूतैः सद्भिः 'अभिकंतंचखलुवयंसपेहाए' तत्रप्राणिनांकालकता शरीरावस्था यौवनादिर्वयः तज्जरामभि मृत्युं वा क्रान्तमभिक्रान्तम्, इह हि चत्वारि वयांसिकुमारयौवनमध्यमवृद्धत्वानि, उक्तंच॥१॥ “प्रथमे वयसि नाधीतं, द्वितीये नार्जितं धनम् । तृतीये न तपस्तप्तं, चतुर्थे किं करिष्यति?" तत्राद्यवयोद्वयातिक्रमे जराभिमुखमभिक्रान्तं वयो भवति, अन्यथा वा त्रीणि वयांसिकौमारयौवनस्थविरत्वभेदाद्, उक्तंच॥१॥ __ "पिता रक्षति कौमारे, भर्ता रक्षति यौवने । पुत्राश्च स्थाविरे भावे, न स्त्री स्वातन्त्र्यमर्हति" अन्यथा वा त्रीणि वयांसि, बालमध्यवृद्धत्वभेदात, उक्तंच॥१॥ आषोडशामवेद्बालो, यावत्झीरानवर्तकः । मध्यमः सप्ततिं यावत्परतो वृद्ध उच्यते" एतेषु वयस्सु सर्वेष्वपि योपचयवत्यवस्था तामतिक्रान्तोऽतिक्रान्तवया इत्युच्यते, चः समुच्चये, न केवलं श्रोत्रचक्षुर्घाणरसनस्पर्शनविज्ञानेव्यस्तसमस्तैर्देशतःसर्वतो वापरिहीयमाणैर्वा मौढ्यमापद्यते, वयश्चातिक्रान्तं प्रेक्ष्य' पर्यालोच्य 'स' इति प्राणी खलुरिति विशेषणे विशेषेणअत्यर्थं मौढ्यमापद्यत इति, आह च-'ततो से' इत्यादि, 'तत' इति तस्मदिन्द्रियविज्ञानापघयाद्वयोऽतिक्रमणाद्वा स इति प्राणी ‘एकदेति वृद्धावस्थायां मूढभावो मूढत्वं-किंकर्तव्यताभावमात्मनो जनयति, अथवा 'से'तस्यासुभृतः श्रोत्रादिविज्ञानानि परिहीयमाणानि मूढभावं जनयन्तीति ।। स एवं वार्धक्ये मूढस्वभावः सन्प्रायेण लोकावगीतो भवतीत्याहमू. (६५) जेहिं वा सद्धिं संवसति ते विणं एगदा नियगा पुलिं परिवयंति. सोऽवि ते For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy