________________
११०
आचाराङ्गसूत्रम् १/-/२/१/६४
'तिजातिको भवन्ती'तिबहुवचनमकारि, अथवा तानिवाश्रोत्रविज्ञानानिपरिक्षीयमाणान्यात्मनः सदसद्विवेकविकलतामापादयन्तीति, श्रोत्रादिविज्ञानानांचतृतीयाप्रथमार्थेसुब्यत्ययेन द्रष्टव्येति, एवं चक्षुरादिविज्ञानेष्वपि योज्यम्, अत्र च करणत्वादिन्द्रियाणामेवं सर्वत्र द्रष्टव्यं-श्रोत्रेणात्मनो विज्ञानानि चक्षुषाऽऽत्मनो विज्ञानानीति, ननु च तान्येव द्रष्टक्र णि कुतो न भवन्ति?, उच्यते अशक्यमेवं विज्ञातुं, तद्विनाशे तदुपलब्धार्थस्मृत्यभावात, दृश्यते च ह्यषीकोपघातेऽपि तदुपलब्धार्थस्मरणं, तद्यथा
धवलगृहान्तर्वर्तिपुरुषपञ्चवातायनोपलब्धार्थस्य तदन्यतरस्थगनेऽपि तदुपपत्तिरिति, तथाहि अहमनेन श्रोत्रेण चक्षुषा वा मन्दमर्थमुपलभे, अनेन च स्फुटतरमिति स्पष्टैव करणत्वावगतिरक्षाणां, यद्येवमन्यान्यपिकरणानिसन्ति तानि किंनोपात्तानि?,कानिपुस्तानि?, उच्यन्ते, वाक्याणिपादपायूपस्थमनांसि वचनादानविहरणोत्सर्गानन्दसङ्कल्पव्यापाराणि, ततश्चैतेषामात्मोपकारकत्वेन करणत्वं, करणत्वादिन्द्रियत्वमिति, एवं चैकादशेन्द्रियसद्मावेसति पञ्चानामेवोपादानं किमर्थमिति, आहाचार्यो-नैष दोषः, इह ह्यात्मनो विज्ञानोत्पत्तौ यत् प्रकृष्टमुपकारकंतदेव करणत्वादिन्द्रियम्, एतानितुवाक्पाण्यादीनिनैवात्मनोऽनन्यसाधारणतया करणत्वेन व्याप्रियन्ते,अथयांकाञ्चन क्रियामुपादाय करणत्वमुच्यतेएवंतर्हिभूदरादेरप्युत्क्षेपादिसम्भवात्करणत्वं स्यात्, किं च-इन्द्रियाणां स्वविषये नियतत्वात् नान्येन्द्रियकार्यमन्यदिन्द्रियं कर्तुमलं, तथाहि-चक्षुरेव रूपावलोकनायालं न तदभावे श्रोत्रादीनि, यस्तु रसाधुपलम्भे शीतस्पशदिरप्युपलम्भः ससर्वव्यापित्वात्स्पर्शनेन्द्रियस्येत्यनाशङ्कनीयम्, इहतुपुनः पाणिच्छेदेऽपि तत्कार्यस्यादानलक्षणस्य दशनादिनाऽपि निर्वत्यमानत्वाद्यत्किञ्चिदेतत्, मनसस्तु सर्वेन्द्रियोपकारकत्वादन्तः करणत्वमिष्यत एव, तस्य च बाह्येन्द्रियविज्ञानोघातेनैव गतार्थत्वान्न पृथगुपादानमिति, प्रत्येकोपादानंचक्रमोत्पत्तिविज्ञानोपलक्षणार्थ, तथाहि-येनैवेन्द्रियेण सहमनः संयुज्यतेतदेवात्मीयविषयगुणग्रहणायप्रवर्ततेनेतरदिति,ननुच दीर्घशष्कुलीभक्षणादौपञ्चानामपि विज्ञानानां यौगपद्येनोपलब्धिरनुभूयते, नैतदस्ति, केवलिनोऽपि द्वावुपयोगी न स्तः, आस्तां तावदारातीयभागदर्शिनः पञ्चोपयोगा इति, एतच्चान्यत्र न्यक्षेण प्रतिपादितमिति नेह प्रतापयते, यस्तु यौगपद्येनानुभवाभासः स द्रागवृत्तित्वान्मनसो भवतीति, उक्तंच॥9॥"आत्मा सहैति मनसा मन इन्द्रियेण, स्वार्थेन चेन्द्रियमिति क्रम एष शीघ्रः। योगोऽयमेव मनसः किमगम्यमस्ति?, यस्मिन्मनो व्रजति तत्र गतोऽयमात्मा"
इह चायमात्गेन्द्रियलब्धिमान् आदित्सितजन्मोत्पत्तिदेशेसमयेनाहारपर्याप्ति निवर्तयति, तदनन्तरमन्तर्मुहूर्तेन शरीरपर्याप्तिं, ततोऽपीन्द्रियपर्याप्तितावतैव कालेन, तानिचपञ्चेन्द्रियाणिस्पर्शनरसनघ्राणचक्षुःश्रोत्राणीति, तान्यपि द्रव्यभावभेदात् प्रत्येकं द्विविधानीति, तत्र द्रव्येन्द्रियं निर्वृत्युपकरणभेदात् द्विधा, निवृत्तिरप्यान्तरबाहामेदात् द्विधैवनिर्वत्यत इति निर्वृत्तिः, केन नि वत्यते?,कर्मणा, तत्रोत्सेधाङ्गुलासङ्घयेयभागप्रमितानांशुद्धानामात्मप्रदेशानांप्रतिनियतचक्षुरादीन्द्रियसंस्थानेनावस्थिता या वृत्तिरभ्यन्तरा निवृत्तिः, तेष्वेवात्मप्रदेशेष्विन्द्रियव्यपदेशभाक्यः प्रतिनियतसंस्थानो निर्माणनाम्ना पुद्लविपाकिना वर्द्धकिसंस्थानीयेन आरचितः कर्णशष्कुल्यादिविशेषः अङ्गोपाङ्गनाम्नाच निष्पादितइति बाह्यानिवृतिः, तस्याएव निर्वृत्तोर्द्विरूपायाः
___www.jainelibrary.org
Jain Education International
For Private & Personal Use Only