________________
श्रुतस्कन्धः-२, अध्ययनं-१, उद्देशक
१०९ दुत्तरोत्तरसमयादिवृद्धया पल्योपमत्रयावसानेऽप्यायुषि खलुशब्दस्यावधारणार्थत्वात्संयमजीवितमल्पमेवेति,तथाहि-अन्तर्मुहूर्तादारभ्यदेशोनपूर्वकोटिंयावत्संयमायुष्कं,तच्चाल्पमेवेते, अथवा त्रिपल्योमपस्थितिकमप्यायुरल्पमेव, यतस्तदप्यन्तर्मुहूर्तमपहाय सर्वमपवर्तते, उक्तंच
"अद्धाजोगुक्कोसे बंधित्ता भोगभूमिएसुलहुँ।
सव्वप्पजीवियं वज्जइत्तु उव्वट्टिया दोण्हं।।" अस्या अयमर्थः-उत्कृष्टे योगे-बन्धाध्यवसायस्थाने आयुषो यो बन्धकालोऽद्धा उत्कृष्ट एव तं बद्धवा, क्व? - 'भोगभूमिकेषु' देवकुर्बादिजेषु, तस्य क्षिप्रमेव सर्वाल्पमायुर्वजयित्वा 'द्वयोः' तिर्यग्मनुष्ययोरप्रवृत्तिका-अपवर्तनं भवति, एतच्चापर्याप्तकान्तर्मुहूर्तान्तर्द्रष्टव्यं, तत ऊर्ध्वमनपवर्तनमेवेति।सामान्येनवाऽऽयुः सोपक्रमायुषांसोपक्रमनिरुपक्रमायुषां निरुपक्रम, यदाह्यसुमान्स्वायुषस्त्रिभागेत्रिभागत्रिभागेवाजघन्यतएकेन द्वाभ्यांवोत्कृष्टतः सप्तभिरभिर्वा वर्षैरन्तर्मुहूर्तप्रमाणेन कालेनात्मप्रदेशरचनानाडिकान्तर्वतिन आयुष्ककर्मवर्गणापुद्गलान् प्रयत्नविशेषेण विधत्ते तदा निरुपक्रमायुर्भवतीति, अन्यदा तु सोपक्रमायुष्क इति, उपक्रमचोपक्रमण-कारणैर्भवति, तानि चामूनि॥१॥ 'दंडकससस्थरज्जू अग्गी उदगपडणं विसं वाला।
सीउण्हं अरइ भयंखुहा पिसा यवाहीय ॥२॥ मुत्तपुरीसनिरोहे जिण्णाजिण्णेय भोयणे बहुसो।
घंसणघोलणपीलण आउस्स उवक्कमा एते (उक्तंच-) ॥१॥ "स्वतोऽन्यत इतस्ततोऽभिमुखधावमानापदामहो
निपुणता नृणां क्षणमपीह यज्जीव्यते। मुखे फलमतिक्षुधा सरसमल्पमायोजितं,
कियच्चिरमचर्वितं दशनसङ्कटे स्थास्यति? ॥२॥ उच्छ्वासावधयः प्राणाः, सचोच्छ्वासः समीरणः ।
समीरणाचलं नान्यत्, क्षणमप्यायुरम्दमुतम् इत्यादि। येऽपि दीर्घायुष्कस्थितिका उपक्रमणकारणाभावे आयुःस्थितिमनुभवन्ति तेऽपि मरणादप्यधिकांजराभिभूतविग्रहा जघन्यतमामवस्थामनुभवन्तीति तद्यथेत्यादिना दर्शयति
__ मू. (६४) सोयपरिणाणेहिं परिहायमाणेहिं चक्खुपरिणाणेहिं परिहायमाणेहिं घाणपरिणाणेहि परिहायमाणेहिं रसणापरिण्णाणेहिं परिहायमाणेहिं फासपरिण्णाणेहिं परिहायमाणेहिं अभिकंतंच खलु वयंस पेहाए तओ से एगदा मूढभावंजणयंति।
वृ शृणोति भाषापरिणतान् पुद्गलानिति श्रोत्रं, तच्च कदम्बपुष्पाकारंद्रव्यतो भावतो भाषाद्रव्यग्रहणलब्ध्युपयोगस्वभावमिति, तेन श्रोत्रेण परिः-समन्ता घटपटशब्दादिविषयाणि ज्ञानानि परिज्ञानानि तैःश्रोत्रपरिज्ञानर्जराप्रभावात्परिहीयमानैः सद्मिस्ततोऽसौ-प्राणी एकदा' वृद्धावस्थायां रोगोदयावसरेवा मूढभावं मूढतांकर्तव्याकर्तव्याज्ञतामिन्द्रियपाटवाभावादात्मनो जनयति, हिताहितप्राप्तिपरिहारविवेकशून्यतामापद्यत इत्यर्थः, जनयन्तीति चैकवचनावसरे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org