________________
.
आचाराङ्ग सूत्रम् १/-/२/१/६३ [नि. १८६ ] संयोगार्थी, तत्र धनधान्यहिरण्यद्विपदचतुष्पदराज्यभार्यादिः संयोगस्तेनार्थी-तप्रयोजनी, अथवा शब्दादिविषयः संयोगो मातापित्रादिभिर्वा तेनार्थी कालाकालसमुत्थायी भवतीति । किं च'अठ्ठालोभी' अर्थो-रत्नकुप्यादिस्तत्र आ - समन्ताल्लोभोऽर्थालोभः स विद्यते यस्येत्यसावपि कालाकालसमुत्थायी भवति, मम्मणवणिग्वत्, तथाहि असावतिक्रान्तार्थोपार्जनसमर्थयौवनवया जलस्थलपथप्रेषितनानादेशभाण्डभृतबोहित्थगन्त्रीकोष्ट्रमण्डलिकासम्भृतसम्भारोऽपि प्रावृषिसप्तरात्रावच्छिन्नमुशलप्रमाणजलधारावर्षनिरुद्धसकलप्राणिगणसञ्चारमनोरथायां महानदी जलपूरानीतकाष्ठानि जिघृक्षुरुपभोगधर्म्मावसरे निवृत्तापराशेषशुभपरिणामः केवलमर्थोपार्जनप्रवृत्त इति उक्तं च
11911
१०८
“उक्खणइ खणि निहणइ रतिं न सुअति दियावि य ससंको । लिंपइ ठएइ सययं लंछियपडिलंछियं कुणइ ॥ भुजसु न ताव रिक्को जेमेउं नविय अज्ज मज्जीहं ।
नविय वसीहामि घरे कायव्वमिगं बहुं अजं ॥”
पुनरपि लोभिनोऽशुभव्यापारानाह- 'आलुपे' आ-समन्तालुम्पतीत्यालुम्पः, स हिलोभाभिभूतान्तःकरणोऽपगतसकलकर्त्तव्याकर्त्तव्यविवेकोऽर्थलोभैकद तदष्टिरैहिकामुष्मिकविपाककारिणीर्निर्लाञ्छनगलकर्त्तनचौर्यादिकाः क्रियाः करोति, अन्यच्च - 'सहसक्कारे' करणंकारः, असमीक्षितपूर्वापरदोषं सहसा करणं सहसाकार; स विद्यते यस्येत्यर्श आदिभ्योऽच्, अथवा छान्दसत्वात्कर्त्तर्येव धञ्, करोतीति कारः, तथाहि - लोभतिमिराच्छादितर्दृष्टिरर्थैकमनाः शकुन्तवच्छराघातमनालोच्य पिशिताभिलाषितया सन्धिच्छेदनादितो विनश्यति, लोभाभिभूतो ह्यर्थैकदृष्टिस्तन्मनास्तदर्थोपयुक्तोऽर्थमेव पश्यति नापायान्, आहच- 'विणिविट्ठचित्ते' विविधम्अनेकधा निविष्टं-स्थितमवसाढमर्थोपार्जुनोपाये मातापित्राद्यभिष्वङ्गे वा शब्दादिविषयोपभोगे वा चित्तम्- अन्तःकरणं यस्य स तथा, पाठान्तरं वा 'विणिविट्ठचिट्टे' त्ति, विशेषेण निविष्टा कायवाग्मनसां परिस्पदात्मिकाऽर्थोपार्ज्जनोपायादौ चेष्टा यस्य स विनिविष्टचेष्टः । तदेवं मातापित्रादिसंयोगार्थी अर्थालोभी आलुम्पः सहसाकारोविनिविष्टचित्तो विनिविष्टचेष्थे वा किम्भूतो भवतीत्याह - 'इत्थ' इत्यादि,
'अत्र' अस्मिन्मातापित्रादौ शब्दादिविषयसंयोगे वा विनिविष्टचित्तः सन् पृथिवीकायादिजन्तूनां यच्छस्त्रम् - उपघातकारि तत्र पुनः पुनः प्रवर्त्ते, एवं पौनःपुन्येन शस्त्रे प्रवृत्तो भवति यदि पृथिवीकायादिजन्तूनामुपघाते वर्ते, तथाहि - 'शसु हिंसाया' मित्यस्माच्छस्यते हिंस्यत इति करणे ट्रन्विहितः, तञ्च्च स्वकायपरकायादिभेदभिन्नमिति । पाठान्तरं वा 'एत्य सत्ते पुणो पुणो,' 'अत्र मातापितृशब्दादिसंयोगे लोभार्थी सन् 'सक्तो' गृद्धः अध्युपपन्नः पौनःपुन्येन विनिविष्टचेष्ट आलुम्पकः सहसाकारः कालाकालसमुत्थायी वा भवतीति । एतच्च साम्प्रतेक्षिणामपि युज्येत यद्यजरामरत्वं दीर्घायुष्कं वा स्यात्, तच्चोभयमपि नास्तीत्याह - 'अप्पं च' इत्यादि, अल्पस्तोकं चशब्दोऽधिकवचनः, खलुरवधारणे, आयुरिति भवस्थितिहेतवः कर्म्मपुद्गलाः 'इहे' ति संसारे मनुष्यभवे वा 'एकेषां केषाञ्चिदेव 'मानवानां' मनुजानामिति पदार्थः, वाक्यार्थस्तु-इह अस्मिन् संसारे केषाञ्चिन्मनुजानां क्षुल्लकभवोपलक्षितान्तर्मुहूर्त्तमात्रमल्पं - स्तोकमायुर्भवति, चशब्दा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
॥२॥