________________
श्रुतस्कन्धः - १, अध्ययनं-२, उद्देशक:
१०७ इति परितप्यते, विवक्तं शोभनं प्रचुरं वा उपकरणं-हस्त्यश्वरथासनमञ्चकादि परिवर्तनंद्विगुणत्रिगुणादिभेदभिन्नं तदेव, भोजनं-मोदकादि आच्छादनपट्टयुग्मादि तच्च मे भविष्यति नष्टं वा। 'इच्चत्य'मिति इत्येवमर्थंगृद्धोलोकः तेष्वेवमातापित्रादिरागादिनिमित्तस्थानेष्वामरणंप्रमत्तो ममेदमहमस्य स्वामी पोषको वेत्येवं मोहितमना वसेत्' तिष्ठेदिति, उक्तंच॥१॥ "पुत्रा मे भ्राता मे स्वजना मे गृहकलत्रवर्गो मे।
इति कृतमेमेशब्दं पशुमिव मृत्युर्जनं हरित ।। ॥२॥ पुत्रकलत्रपरिग्रहममत्वदोषैर्नरो व्रजति नाशम् ।
कृमिक इव कोशकारः परिग्रहादुःखमाप्नोति ॥"
-अमुमेवार्थं नियुक्तिकारो गाथाद्वयेनाहनि [१८५] संसारं छेत्तुमणो कम्मं उन्मूलए तदट्टाए।
__उम्मूलिज्ज कसाया तम्हा उ चइज्ज सयणाई॥ नि [१८६] माया मेत्ति पिया मे भगिणी भाया य पुत्तदारा मे।
अत्यंमिचेव गिद्धा जम्मणमरणाणि पावंति। वृ 'संसारं' नारकतिर्यग्नरामरलक्षणं मातापितृभार्यादिस्नेहलक्षणं वा 'छेत्तुमना' उन्मुमूलयिषुरष्टप्रकारं कर्मोन्मूलयेत्, तदुन्मूलनार्थं च तत्कारणभूतान् कषायानुन्मूलयेत्, कषायापगमनाय च मातापित्रादिगतं स्नेहं जह्यात्, यस्मान्मातापित्रादिसंयोगोभिलाषिणोऽर्थेरत्ननकुप्यादिके गृद्धाः-अध्युपपन्ना जन्मजरामरणादिकानि दुःखान्यसुभृतः प्राप्नुवन्तीति गाथाद्धयार्थः ।। तदेवं कषायेन्द्रियप्रमत्तो मातापिताधर्थमर्थोपार्जनरक्षणतत्परो दुःखमेव केवलमनुभवतीत्याह-'अहो' इत्यादि, अहश्च सम्पूर्ण रात्रिंच, चशब्दात्पक्षमासंच, निवृत्तशुभाध्यवसायः परि-समन्तात्तप्यमानः परितप्यमानः सन् तिष्ठति, तद्यथा॥१॥ “कइया वच्चइ सत्थो ? किं भण्डं कत्थ कित्तिया भूमी।
को कयविक्कयकालोनिव्विसइ किं कहिं केण?" इत्यादि, स च परितप्यमानः किम्भूतो भवतीत्याह - ‘काले त्यादि, कालः-कर्तव्यावसरस्तद्विपरीतोऽकालः सम्यगुत्थातुम् अभ्युद्यन्तुंशीलमस्येतिसमुत्थायीतिपदार्थः,वाक्यार्थस्तुकाले कर्तव्यावसरे अकालेन तद्विपर्यासेन समुत्तिष्ठते-अभ्युद्यतमनुष्ठानं करोति तच्छीलश्चेति, कर्तव्यावसरे न करोत्यन्यदा च विदघातीति, तथा वा काले करोत्येवमलकालेऽपीति, यथा वाऽनवसरे न करोत्येवमवसरेऽपीति, अन्यमनस्कत्वादपगतकालाकालविवेक इति भावना, यथा प्रद्योतेन मृगापतिरपगतर्भतृकासतीग्रहणकालमतिबाह्य कृतप्राकारादिरक्षा जिघृक्षितेति, यस्तु पुनः सम्यक्कालोत्थायी भवति स यथाकालं परस्परानाबाधया सर्वाः क्रियाः करोतीति, तदुक्तम्॥१॥ “मासैरष्टभिरद्दा च, पूर्वेण वयसाऽऽयुषा ।
तत् कर्त्तव्यं मनुष्येण, येनान्ते सुखमेधते ॥" धर्मानुष्ठानस्य च न कश्चिदकालो मृत्योरिवेति । किमर्थं पुनः कालाकालसमुत्थायी भवतीत्याह- “संजोगट्ठी' संयुज्यते संयोजनंवा संयोगोऽर्थः-प्रयोजनं संयोगार्थः सोऽस्यास्तीति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org