________________
आचाराङ्ग सूत्रम् १/-/२/१/६३ विषयिणोऽप्याक्षेपात् सूचनार्थत्वाच्च सूत्रस्येत्येवमपि द्रष्टव्यं - यो गुणे गुणेषु वा वर्त्तते स मूलस्थाने मूस्थानेषु वा वर्त्तते, यो मूलस्थानादौ वर्त्तते स एव गुणादौ वर्तत इति, य एव जन्तुः शब्दादिके प्रागव्यावर्णितस्वरूपे गुणे वर्त्तते स एव संसारमूलकषायादिस्थानादौ वर्त्तते, एतदेव द्वितीयसूत्रापेक्षया व्यत्ययेन प्राग्वदायोज्यम्, अनन्तगमपर्यायत्वात् सूत्रस्यैवमपि द्रष्टव्यं - योगुणः स एव मूलं स एव च स्थानं, यन्मूलं तदेव गुणः स्थानमपि तदेव, यत् स्थानं तदेव गुणो मूलमपि तदेवति, यो गुणः शब्दादिकोऽसावेव संसारस्य कषायकारणत्वान्मूलं स्थानमप्यसावेव इत्येवमन्येष्वपि विकल्पेषु योज्यं, विषयनिर्देशे च विषय्यप्याक्षिप्तो, यो गुणे वर्त्तते स मूले स्थाने चेत्येवं सर्व्वत्रं द्रष्टव्यम्,
१०६
इह च सर्व्वज्ञप्रणीतत्वादनन्तार्थता सूत्रस्यावगन्तव्या, तथाहि - मूलमंत्र कषायादिकमुपन्यस्तं कषायाश्च क्रोधादयश्चत्वारः क्रोधोऽप्यनन्तानुबन्ध्यादिभेदेन चतुर्द्धा, अनन्तानुबन्धिनोऽप्यसङ्ख्येलोकाकाशप्रदेशप्रमाणानि बन्धाध्यवसायस्थानान्यनन्ताश्च तत्पर्ययास्तेषां च प्रत्येकं स्थानगुणनिरूपणेनान्तार्थता सूत्रस्य सम्पद्यते सा च छद्मस्थेन सर्वायुषाऽप्यविषयत्वादनन्तत्वा) च्चाशक्या दर्शयितुं, दिग्दर्शनं तु कृतमेवातोऽनया दिशा कुशाग्रीयशेमुष्या गुणमूलस्थानानां परस्परतः कार्यकारणभावः संयोजना च कार्येति । तदेवं य एव गुणः स एव मूलस्थानं यदेव मूलस्थानं स एव गुण इत्युक्तं, ततः किमित्यत आह- 'इति से गुणट्ठी महया' इत्यादि, इतिर्हेतौ यस्माच्छब्दादिगुणपरीत आत्मा कषायमूलस्थाने वर्त्तते, सर्वोऽपि च प्राणी 'गुणार्थी' गुणप्रयोजनी गुणनुरागीत्यतस्तेषां गुणानामप्राप्तौ प्राप्तिनाशे वा काङ्क्षाशोकाभ्यां स प्राणी ‘महता’ अपरिमितेनपरि - समन्तात्तापः परितापस्तेन-शारीरमानसस्वभावेन दुःखेनाभिभूतः सन् पौनःपुन्येन तेषु तेषु स्थानेषु 'वसेत्' तिष्ठेदुत्पद्येत,
किम्भूतः सन् ? - प्रमत्तः । प्रमादश्च रागद्वेषात्मको, द्वेषश्च प्रायो न रागमृते, रागोऽप्युत्पत्तेरा रभ्यानादिभवाभ्यासान्मातापित्रादिविषयो भवतीति दर्शयति- 'माया मे' इत्यादि, तत्र मातृविषयो रागः संसारस्वभावादुपकारकर्तृत्वाद्वोपजायते, रागे च सति मदीया माता क्षुत्पिपासादिकां वेदनां मा प्रापदित्यतः कृषिवाणिज्यसेवादिकां प्राण्युपघातरूपां क्रियामारभते, तदुपघातकारिणि वा तस्यां वाऽ कार्यप्रवृत्तायां द्वेष उपजायते, तद्यथा - अनन्तवीर्यप्रसक्तायां रेणुकायां रामस्येति, एवं पिता मे, पितृनिमित्तं रागद्वेषौ भवतो, यथा रामेण पितरि रागात्तदुपहन्तरि च द्वेषात् सप्तकृत्वः क्षत्रिया व्यापाहिताः, सुभूमेनापि त्रिसप्तकृत्वो ब्राह्मणा इति, भगिनीनिमित्तेन च क्लेशमनुभवति प्राणी, तथा भार्यानिमित्तं रागद्वेषोद्भवः, तद्यथा - चाणाक्येन भगिनीभगिनीपत्याद्यवज्ञातया भार्यया चोदितेन नन्दान्तिकं द्रव्यार्थमुपगेतन कोपान्नन्दकुलं क्षयं निन्ये, तथा पुत्रा मे न जीवन्तीति आरम्भे प्रवर्त्तते, एवं दुहिता मे दुःखिनीति रागद्वेषोपहतचेताः परमार्थमजानानस्तत्तद्विधत्ते येन ऐहिकामुष्मिकान् अपायान् अवाप्नोति, तद्यथा - जरासन्धो जामातरि कंसे व्यापादिते स्वबलावलेपादपसृतवासुदेवपदानुसारी सबलवाहनः क्षयमगात् -
स्नुषा मेन जीवन्तीत्यारम्भादी प्रवर्त्तते, 'सखिस्वजनसंग्रन्थसंस्तुता में सखा-मित्रं स्वजन:पितृव्यादिः संग्रन्थःस्वजनस्यापि स्वजनः पितृव्यपुत्रशालादिः संस्तुतो भूयो भूयो दर्शनेन परिचितः, अथवा पूर्वसंस्तुतो मातापित्रादिरभिहितः पश्चात्संस्तुतः शालकादिः स इह ग्राह्यः, स च मे दुःखित
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
1