________________
१०५
श्रुतस्कन्धः- १, अध्ययनं-२, उद्देशक: मे विवित्तुवगरणपरिवट्टणभोयणच्छायणं मे । इच्चत्यंगड्ढिए लोएअहो यराओय परितप्पमाणे कालाकालसमुट्ठाई संजोगट्ठी अट्ठालोभी आलुपेसहसाकारे विनिविठ्ठचत्ते, एत्य सत्ये पुणो पुणो, अप्पं च खलु आउयं इहमेगेसिंमाण वाणं तंजहा ॥
वृ अस्य चानन्तरपरम्परादिसूत्रैः सम्बन्धो वाच्यः, तत्रानन्तरसूत्रसम्बन्धः-से हु मुणी परिण्णायकम्मे'ति, स मुनिः परिज्ञातका भवति यस्यैतद्गुणमूलादिकमधिगतं भवति, परम्परसूत्रसम्बन्धस्तु सेजंपुणजाणिज्जासहसंमुइयाएपरवागरणेणंअन्नेसिवासोच्चा स्वसम्मत्या परव्याकरणेन तीर्थकरोपदेशादन्येभ्यो वाऽऽचार्यादिभ्यः श्रुत्वा जानीयात्-परिच्छिन्द्यात, किं तदित्युच्यते- 'जेगुणे सेमूलठ्ठाणे',आदिसूत्रसम्बन्धस्तु सुयं मेआउसंतेणंभगवयाएवमक्खायं' किं तत् श्रुतं भवता यद्भगवता यायुष्मताऽऽख्यातमिति?, उच्यते, जे गुणे से मूलट्ठाणे', 'य' इतिसर्वनामप्रथमान्तंमागधदेशीवचनत्वादेकारान्तंसामान्योद्देशार्थाभिधायीति, गुण्यते-भिद्यते विशेष्यतेऽनेन द्रव्यमिति गुणः, स चेह शब्दरूपरसगन्धस्पर्शादिकः, “स' इति सर्वनाम प्रथमान्तमुद्दिष्टनिर्देशार्थाभिधायीति,
___'मूल मिति निमित्तं कारणं प्रत्यय इति पर्यायाः, तिष्ठन्त्यस्मिनिति स्थानं, मूलस्य स्थानं मूलस्थानं, व्यवच्छेदफलत्वाद्वाक्याना मितिन्यायात्यएवशब्दादिकः कामगुणसएवसंसारस्यनारकतिर्यग्नरामरसंसृतिलक्षणस्य यन्मूलं कारणं कषायास्तेषां स्थानम्-आश्रयो वर्तते, यस्मान्मनोज्ञेतरशब्दाधुपलब्धौ कषायोदयः, ततोऽपि संसार इति, अथवा मूलमिति-कारणं, तच्चाष्टप्रकारकर्म, तस्य स्थानम्-आश्रयः कामगुणइति,अथवामूलं-मोहनीयंतभेदोवाकामस्तस्य स्थानं शब्दादिको विषयगुणः,अथवा मूलं-शब्दादिको विषयगुणस्तस्य स्थानमिष्टानिष्टविषयगुणभेदेन व्यवस्थितो गुणरूपः संसार एव, आत्मा वा शब्दाधुपयोगानन्यत्वाद् गुणः, अथवा मूलं-संसारस्तस्य शब्दादयः स्थानं कषाया वा, गुणोऽपि शब्दादिकः कषायपरिणतो वाऽऽत्मेति, यदिवा मूलं संसारस्य शब्दादिकषायपरिणतः सन्नात्मा तस्य स्थानं शब्दादिकं, गुणोऽप्यसावेवेति, ततश्च सर्वथा य एव गुणः स एव मूलस्थानं वर्तते ननु च वर्तनक्रियायाः सूत्रेऽनुपादानात् कथं प्रक्षेप इति ?, उच्यते, यत्र हि काचिद्विशेषक्रिया नैवोपादायि तत्र सामान्यक्रियामस्ति भवति विद्यते वर्तत इत्यादिकामुपादाय वाक्यं परिसमाप्यते, एवमन्यत्रापि द्रष्टव्यमिति । अथवा मूलमित्याचं प्रधानं वा, स्थानमित कारणं, मूलं च तत्कारणं चेति विगृह्य कर्मधारयः, ततश्चय एव शब्दादिको गुणः सएवमूलस्थानंसंसारस्यआधेप्रधानवाकारणमिति, शेषं पूर्ववदिति।
साम्प्रतमनयोरेव गुणमूलस्थानयोर्नियम्यनियामकभावं दर्शयंस्तदुपात्तानां विषयकषायादीनांवीजाङ्कुरन्यायेनंपरस्परतः कार्यकारणभावंसूत्रेणैवदर्शयति-'जेमूलट्ठाणेसेगुणे'त्ति, यदेव संसारमूलानां कर्ममूलानां वा कषायाणां स्थानम्-आश्रयः शब्दादिको गुणोऽप्यसावेय, अथवाकषायमूलानांशब्दादीनांयत् स्थानं कर्मसंसारोवा तत्तत्स्वभावापत्तेःगुणोऽप्यसावेवेति, अथवा शब्दादिकषायपरिणाममूलस्य संसारस्य कर्मणो वा यत् स्थान-मोहनीयं कर्म शब्दादिकषायपरिणतोवाऽऽत्मतेतद्गुणावाप्तेःगुणोऽप्यसावेव, यदिवा-संसारकषायमूलस्यात्मनो यत् स्थानं-विषयाभिष्वङ्गोऽसावपिशब्दादिविषयत्वाद् गुणरूपएवेति ।अत्रच विषयोपादानेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org