________________
१०४
आचाराङ्ग सूत्रम् १/-/२/१/- [नि. १८४] कर्मवर्गणानामेकत्वेतद्विशेषस्यावधित्वेनोपादानात्पञ्चम्येवन्याच्येति, तद्विशेषाधिका वेदनीये
उक्तःप्रदेशबन्धः समुदानकापीति।साम्प्रतमीर्यापथिकं, "ईरगतिप्रेरणयोः" अस्माद्भावे ण्यत्, ईरणमीर्या तस्याः पन्थाईर्यापथस्तत्रभवमीर्यापथिकं, कश्चर्यायाः पन्था भवति?, यदाश्रिता सा भवतीति?, एतच्च व्युत्पत्तिनिमित्तं यतस्तिष्ठतोऽपि तद्भवति, प्रवृत्तिनिमित्तं तु स्थित्यभावः, तच्चोपशान्तक्षीणमोहसयोगकेवलिनांभवति, सयोगकेवलिनोऽपि हि तिष्ठतोऽपि सूक्ष्मगात्रसञ्चारा भवन्ति, उक्तंच- “केवली णं भंते ! अस्सिं समयंसि जेसु आगासपदेसे हत्थं वा पायं वा ओगाहित्ता णं पडिसाहरेज्जा, पभूणं भंते! केवली तेसुचेवागासपदेसेसुपडिसाहरित्तए?, नो इणढे समढे, कहं ?, केवलिस्सणं चलाइं सरीरोवगरणाई भवंति, चलोवगरणत्ताए केवली नो सञ्चाएति तेसु चेवागासपदेसेसु हत्थं वा पायं वा पडिसाहरित्तए" तदेवं सूक्ष्मतरगात्रसञ्चाररूपेण योगेन यत्कर्मबध्यते तदीय्यार्पथिकम्-ईप्रिभवं, ईयहितुकमित्यर्थः, तच्च द्विसमयस्थितिकम्-एकस्मिन् समये बद्धं द्वितीये वेदितं, तृतीयसमये तदपेक्षया चाकर्मतेति, कथमिति ?, उच्यते, यतस्तत्प्रकृतितः सातावेदनीयमकषायत्वात् स्थित्यभावेन बध्यमानमेव परिशटति, अनुभावतोऽनुत्तरोपपातिकसुखातिशायिप्रदेशतःस्थूलरूक्षशुक्लादिबहुप्रदेशमिति, उक्तंच॥१॥ “अप्पं बायरमउयं बहुंच लुक्खं च सुक्किलं चेव ।
मंदं महव्वतंतिय साताबहुलं च तं कम्मं ॥ अल्पंस्थितितः स्थितेरेवाभावात्, बादरंपरिणामतोऽनुभावतोमृद्वनुभावं, बहुचबहुप्रदेशैः, रूक्षंस्पर्शतो, वर्णेन शुक्लं, मन्दं लेपतः, स्थूलचूर्णमुष्टिमृष्टकुड्यापतितलेपवत्महाव्ययमेकसमयेनैव सर्वापगमात्, साताबहुलमनुत्तरोपपातिकसुखातिशायीति।उक्तमीर्यापथिकम्, अधुनाआधाकर्म, यदाधाय-निमित्तत्वेनाश्रित्य पूर्वोक्तमष्टप्रकारमपि कर्म बध्यते तदाधाकर्मेति, तच्च शब्दस्पर्शरसरूपगन्धादिकमिति, तथाहि-शब्दादिकामगुणविषयभिष्वङ्गवान् सुखलिप्सुर्मोहोपहतचेताः परमार्थासुखमयेष्वपि सुखाध्यारोपं विदधाति, तदुक्तम् - ॥१॥"दुःखात्मकेषु विषयेषु सुखाभिमानः, सौख्यात्मकेषु नियमादिषु दुःखबुद्धिः ।
उत्कीर्णवर्णपदपङ्किरिवान्यरूपा, सारूप्यमेति विपरीतगतिप्रयोगात्॥"
एतदुक्तंभवति-कर्मनिमित्तभूता मनोज्ञेतरशब्दादयएवाधाकर्मेत्युच्यन्ते इति।तपःकर्म तस्यैवाष्टप्रकारस्य कर्मणोबद्धस्पृष्टनिधत्तनिकाचितावस्थस्यापि निर्जराहेतुभूतंबाह्याभ्यन्तरभेदेन द्वादशप्रकारंतपःकर्मेत्युच्यते । कृतिकर्मतस्यैव कर्मणोऽपयनकारकमर्हत्सिद्धाचार्योपाध्यायविष्यावनामादिरूपमिति।भावकर्मा पुनरबाधामुल्लङ्घय स्वोदयेनोदीरणाकरणेन वोदीर्णाः पुद्गलाः प्रदेशविपाकाभ्यां भवक्षेत्रपुद्गलजीवेष्वनुभावं ददतो भावकर्मशब्देनोच्यन्त इति । तदेवं नामादिनिक्षेपेण दशधा कर्मोक्तम्, इह तु समुदानकर्मोपात्तेनाष्टविधकर्मणाऽधिकार इति गाथाशकलेन दर्शयति--अट्टविहेण०
गाथार्द्धकण्ठयमिति गाथाद्वयपरमार्थः ॥ तदेवं सूत्रानुगमेन सूत्रे समुच्चारिते निक्षेपनियुक्त्यनुगमन प्रतिपदं निक्षिप्ते नामादिनिक्षेपेच व्याख्याते सत्युत्तरकालं सूत्रं विव्रियते
मू. (६३) जे गुणे से मूलट्ठाणे, जे मूलट्ठाणे से गुणे । इति से गुणठी महया परियावेणं पुणो पुणो वसे पमत्ते-माया मे पिया मे भज्जा मे पुत्ता मे धूआ मेण्हुसा मे सहिसयणसंगंथसंथुआ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org