________________
श्रुतस्कन्धः - १, अध्ययनं - २, उद्देशकः १
गत्यानुपूर्वीद्वयनरकगत्यानुपूर्वी द्वयवैक्रि यशरीरतदङ्गोपाङ्गरूपामणामष्टषष्टयुत्तरप्रकृसागरोपमस्य द्वौ सप्तभागौ पल्योपमासङ्ख्येयभागन्यूनी अन्तर्मुहूर्त्तमबाधा, वैक्रियषट्कस्य तु सागरोपमसहस्य द्वौ सप्तभागी पल्योपमासङ्घयेयभागान्यूनावन्तर्मुहूर्त्तमबाधा, आहारकतदङ्गोपाङ्गतीर्थकरनाम्नां सागरोपमकोटीकोटिर्भिन्नान्तर्मुहूर्तमबाधा, ननु चोत्कृष्टोऽप्येतावन्मात्र एवाभिहितस्तः कोऽनयोर्भेद इति ?, उच्यते, उत्कृष्टात्, सङ्घयेयगुणहीनो जघन्य इति, यशः कीर्त्यच्चैर्गोत्रयोरष्टमुहूर्त्तान्यन्तर्मुहूर्तमबाधा, देवनारकायुषोर्दश वर्षसहाम्राण्यन्तर्मुहूर्तमबाधा, तिर्यग्मनुजायुषोः क्षुल्लकभवोऽन्तर्मुहूर्तमबाधेति, बन्धनसङ्घातयोरौदारिकादिशरीरसहचरितत्वात्तद्गत एवोत्कृष्टजघन्यभेदोऽवगन्तव्य इति ।
उक्तः स्थितिबन्धः, अनुभावबन्धस्तूच्यते तत्र शुभाशुभानां कर्मप्रकृतीनां प्रयोग-कर्मणोपात्तानां प्रकृतिस्थितिप्रदेशरूपाणां तीव्रमन्दानुभावतयाऽनुभवनमनुभावः, स चैकद्वित्रिचतुःस्थानभेदेनानुगन्तव्यः, तत्राशुभप्रकृतीनां कोशातकीरससमक्वध्यमानार्द्धत्रिभागपादावशेषतुल्यतया तीव्रानुभावोऽवगन्तव्यो मन्दानुभावस्तु जातिरसैकद्वित्रिचतुर्गुणोदकप्रक्षेपास्वादतुल्यतयेति, शुभानां तु क्षीरेक्षुरसदृष्टान्तः पूर्ववद्योजनीयः, अत्र च कोशातकी क्षुसादावुदकबिन्द्वादिप्रक्षेपात् व्यत्ययाद्वा भेदानामानन्त्यमवसेयमिति । अत्र चायूंषि भवविपाकीनि आनुपूर्व्यः क्षेत्रविपाकिन्यः शरीरसंस्थानाङ्गोपाङ्गसङ्घातसंहननवर्णगन्धरसस्पर्शागुरुलघूपघातपरा
घात`द्योतातपनिर्माणप्रत्येकसाधारणस्थिरास्थिरशुभाशुभरूपाः पुद्गलविपाकिन्यः, शेषास्तु ज्ञानावरणादिका जीवविपाकिन्य इत्युक्तोऽनुभावबन्धः ।
प्रदेशबन्धस्त्वेकविधादिबन्धकापेक्षया भवति, तत्र यदैकविधं बघ्नाति तदा प्रयोगकर्मणैकसमयोपात्ताः पुद्गला सातावेदनीयभावेन विपरिणमन्ते षड्विधबन्धकस्य वायुमहनीयवः षोढा, सप्तविधबन्धकस्य सप्तधा, अष्टविधबन्धकस्याष्टधेति, तत्राद्यसमयप्रयोगात्ताः पुद्गलाः समुदानेन द्वितीयादिसमयेष्वल्प बहुप्रदेशतयाऽनेन क्रमेण व्यवस्थापयतितत्रायुषः स्तोकाः पुद्गलाः, तद्विशेषाधिकाः प्रत्येकं नामगोत्रयोः, परस्परं तुल्याः, तद्विशेषाधिकाः प्रत्येकं ज्ञानदर्शनावरणान्तरायाणां, तेभ्यो विशेषाधिका मोहनीये । ननु च तेभ्यो विशेषाधिइका इत्यत्र निर्द्धारणे पञ्चमी, सा च "पञ्चमी विभक्ते" इत्यनेन सूत्रेण विधीयते, अस्यचायमर्थोविभागो विभक्तं तत्र पञ्चमी विधीयमाना यत्रात्यन्तविभागस्तत्रैव भवति, यथा माथुरेभ्यः पाटलिपुत्रका अभिरूपतराः, इह च कर्म्मपुद्गलानां सर्वदैकत्वं, तथावस्थानामेव च बुद्धया बहुप्रदेशादिगुणेन पृथक्करणं चिकीर्षितं, तत्र षष्ठी सप्तमी वा न्याय्या, तद्यथा- गवां गोषु वा कृष्णा सम्पन्नक्षीरतमेति, नैष दोषो, यत्रावध्यवधिमतोः सामान्यवाची शब्दः प्रयुज्यते तत्रैव षष्ठीसप्तम्यौ, “यतश्च निर्द्धारणमित्यनेन सूत्रेण विधीयेते, यथा गवां कृष्णा सम्पन्नक्षीरतमा, मनुष्येषु पाटलिपुत्रकाः आढ्यतराः, कर्म्मवर्गणापुद्गलानां वेदनीये बहुतरा इति, यत्र पुनर्विशेषवाची शब्दोऽवधित्वेनोपादीयते तत्र पञ्चम्येव, यथा खण्डमुण्डशबल- शाबलेयधवलधावलेयव्यक्तिभ्यः कृष्णा सम्पन्नक्षीरतमेति, अतो नात्र विभागः कारणमविभागो वा, यतो माथुरपाटलिपुत्रकादिविभागेन विभक्तानामपि सामान्यमनुष्यादिशब्दोच्चारणे षष्ठीसप्तम्यौ भवतो, यत्र तु पुनर्म्माथुरादिविशेषोऽवधित्वेनोपादीयते तत्र कार्यवशादेकस्थानामपि पञ्चम्येव, तदिह सत्यपि
For Private & Personal Use Only
Jain Education International
१०३
www.jainelibrary.org