________________
१०२
आचाराङ्ग सूत्रम् 9/-/२/9/- [नि. १८४]
॥१०॥ अरिहंतादिसु भत्तो सुत्तरुई पयणुमाण गुणपेही।
बन्धइ उच्चागोयं विवरीए बंधई इयरं॥ ॥११॥ पाणवहादीसुरतो जिणपूयामोक्खमग्गविग्घयरो।
___ अजेइ अंतरायण नइइजेणिच्छियं लाभं ।" स्थितिबन्धो मूलोत्तरप्रकृतीनामुत्कृष्टजघन्यभेदः,तत्रोत्कृष्टोमूलप्रकृतीनांज्ञानावरणीय दर्शनावरणीयवेदनीयान्तरायाणां त्रिंशत्सागरोपमकोटीकोट्यः, यस्य च यावत्यः कोटीकोट्यः स्थितिस्तस्य तावन्त्येव वर्षशतान्यबाधा, तदुपरि प्रदेशतो विपाकतो वा अनुभवः, एतदेव प्रतिकर्मस्थितयोजनीयं, सप्ततिम्र्मोहनीयस्य, नामगोत्रयोविशत्तिः,त्रयस्त्रिंशत्सागरोपमाण्यायुषः पूर्वकोटीत्रिभागोऽबाधा।जघन्योज्ञानदर्शनावरणमोहनीयान्तरायाणामन्तर्मुहूर्त, नामगोत्रयोरष्टौ मुहूर्ताः, वेदनीयस्य द्वादश, आयुषः क्षुल्लकभवः, सचानापानसप्तदशभागः।
___ साम्प्रतमेतदेव बन्धद्वयमुत्तरप्रकृतीनामुच्यते-तत्रोत्कृष्टो मतिशश्रुतावधिमनःपर्यायकेवलावरणनिद्रापञ्चकचक्षुर्दर्शनादिचतुष्कासद्वेद्यदानाद्यन्तरायपञ्चकभेदानां विंशतेरुत्तरप्रकृतीनां त्रिंशत्सागरोपमकोटीकोट्यः, स्त्रीवेदसातवेदनीयमनुजगत्यानुपूर्वीणां चतसृणांपञ्चदश, मिथ्यात्वस्यौधिकमोहनीयवत्, कषायषोडशकस्यचत्वारिंशत्कोटीकोट्यः, नपुंसकवेदारतिशोकभयजुगुप्सानरकतिर्यग्गत्येकेन्द्रियपञ्चेन्द्रियजात्यौदारिकवैक्रिय शरीरतदङ्गोपाङ्गद्वयतैजसकार्मणहुण्डसंस्थानान्तयसंहननवर्णगन्धरसस्पर्शनरकतिर्यगानुपूर्वीअगुरुलधूपघातपराघातोच्छ्वासातपोद्योताप्रशस्तविहायोगतित्रसस्थावरबादरपर्याप्तकप्रत्येकास्थिराशुभदुर्भगदुःस्वरानादेयायशःकीर्तिनिर्माणनीचैर्गोत्ररूपाणां त्रिचत्वारिंशत उत्तरप्रकृतिनां विंशतिः, पुंवेदहास्यरतिदेवगत्यानुपूर्वीद्वयाद्यसंस्थानसंहननप्रशस्त विहायोगतिस्थिर- शुभसुभगसुस्वरादेययशःकीत्त्युच्चैर्गोत्ररूपाणां पञ्चदशानामुत्तरप्रकृतीनां दश, न्यग्रोधसंस्थान- द्वितीयसंहननयोर्वादश तृतीयसंस्थाननाराचसंहननयोश्चतुर्दश कुब्जसंस्थानार्धनाराचसंहननयोः षोडश वामनसंस्थानकीलिकासंहननद्वित्रिचतुरिन्द्रिय जातिसूक्ष्मापर्याप्तकसाधारणानामष्टानामुत्तरप्रकृतीनामष्टादश, आहारकतदङ्गोपाङ्गतीर्थकरनाम्नां सागरोपमकोटीकोटिर्मिन्नान्तर्मुहूर्तमबाधा, देवनारकायुषोरौधिकवत्, तिर्यग्मनुष्यायुषः पल्योपमत्रयं पूर्वकोटित्रिभागोऽबाधा,
उक्त उत्कृष्टः स्थितिबन्धो, जघन्य उच्यते-मत्यादिपञ्चकचक्षुर्दर्शनाद्यावरणचतुष्कसञ्जवलनलोभदानाद्यन्तरायपञ्चकभेदानां पञ्चदशानामन्तर्मुहूर्तमन्तर्मुहूर्तमेवाबाधा, निद्रापञ्चकासातावेदनीयानांपण्णांसागरोपमस्य त्रयःसप्तभागाःपल्योपमासङ्खयेयभागन्यूनाः, सातावेदनीयस्य द्वादश मुहूर्ता अन्तर्मुहूर्तमबाधा, मिथ्यात्वस्य सागरोपमं पल्योपमसङ्खयेयभागन्यनम्, आधकषायद्वादशकस्य चत्वारःसप्तभागाःसागरोपमस्यपल्योपमासङ्खयेयभागन्यनाः, सअवलनक्रोधस्य मासद्वयं, मानस्य मासः, तदर्थं मायायाः, पुंवेदस्याष्टौ संवत्सराः, सर्वत्रान्तमुहूर्तमबाधा, शेषनोकषायमनुष्यतिर्यग्गतिपञ्चेन्द्रियजात्यौदारिकतदङ्गोपाङ्गतैजसकार्मणषट्संस्थानसंहननवर्णनगन्धरसस्पर्शतिर्यग्मनुजानुपूर्वीअगुरुलघूपघातपराघातोच्छ्वासातपोद्योतप्रशस्ताप्रशस्तविहायोगतियशःकीर्तिवर्जत्रसादिविंशतिकनिर्माणनीचैर्गोत्रदेव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org