________________
श्रुतस्कन्धः - १, अध्ययनं - २, उद्देशक: १
केवलावारकं सर्वघाति शेषाणि तु देशसर्वघातीन्यपि, दर्शनावरणीयं नवधा- निद्रापञ्चकदर्शनचतुष्टभेदात्, तत्र निद्रापञ्चकं प्राप्तदर्शनलब्ध्युपयोगोपघातकारि, दर्शनचतुष्टयंतुदर्शनलब्धिप्राप्तेरेव, अत्रापि केवलदर्शनावरणं सर्वघाति शेषाणि तु देशतः
•
वेदनीयं द्विधा - सातासातभेदात्, मोहनीयं द्विधा-दर्शनचारित्रभेदात्, तत्र दर्शनमोहनीयं त्रिघामिथ्यात्वादिभेदात्, बन्धतस्त्वेकविधं चारित्रमोहनीयं षोडशकषायनवनीकषायभेदात्पञ्चविंशतिविधम्, अत्रापि मिथ्यात्वं सज्जवलनवर्जा द्वादश कषायाश्च सर्व्वघातिन्यः, शेषास्तु देशघातिन्य इति, आयुष्कं चतुर्द्धा-नारकादिभेदात्, नाम द्विचत्वारिंशद्भेदं गत्यादिभेदात्, त्रिनवतिभेदं चोत्तरोत्तरप्रकृतिभेदात्, गतिश्चतुर्द्धा जातिरेकेन्द्रियादिभेदात्पञ्चधा शरीराणि औदारिकादिभेदात्पञ्चधा औदारिकवैक्रियाहारकभेदादङ्गोपाङ्गंत्रिधा निर्माणनाम सर्व्वजीवशरीरावयवनिष्पादकमेकधा बन्धननाम औदारिकादिकर्म्मवर्गणैकत्वापादकं पञ्चधा सङ्घातना - मौदारिकादिकर्म्मवर्गणारचनाविशेषसंस्थापकं पञ्चधा संस्थाननाम समचतुरस्रादि षोढा संहनननाम वज्रऋषभनाराचादि षोढैव स्पर्शोऽष्टधा रसः पञ्चधा गन्धो द्विधा वर्णः पञ्चधा आनुपूर्वी नारकादिश्चतुर्द्धा विहायोगतिः प्रशस्तप्रशस्तभेदात् द्विधा अगुरलघूपघातपराघातातापोद्योतोच्छ्वास प्रत्येकसाधारणत्रसस्थावरशुभाशुभसुभगदुर्भगसुस्वरदुःस्व रसूक्ष्मबादरपर्याप्तकापर्याप्तकस्थिरास्थिरादेयानादेययशः कीर्त्तिअयशः कीर्त्तितीर्थकरनामानि प्रत्येकमेकविधानीति, गोत्रमुञ्च्चनीचभेदात् द्विधा, अन्तरायं दानलाभभोगोपभोगवीर्यभेदात् पञ्चधेत्युक्तः प्रकृतिबन्धो, बन्धकारणानि तु गाथाभिरुच्यन्ते -
11911
॥२॥
॥३॥
॥४॥
॥५॥
॥६॥
॥७॥
॥८॥
॥९॥
“पंडिणीयमंतराइय उवधाए तप्पओस निन्हवणे । आवरणदुगं बन्धइ भूओ अञ्च्चासणाए य ॥ भूयाणुकंपवयजोगउज्जुओ खंतिदाणगुरुभत्तो । बन्धइ भूओ सायं विवरीए बन्धई इयरं ॥ अरहंतसिद्धचेइयतवसु अगुरुसाधुसंघपडिणीओ । बंधइ दंसणमोहं अनंतसंसारिओ जेणं ॥ तिव्वकसाओ बहुमोहपरिणतो रागदोससंजुत्तो । बंधइ चरित्तमोहं दुविहंपि चरित्तगुणघाई ॥ मिच्छद्दिट्ठी महारंभपरिग्गहो तिव्वलोभ निस्सीलो । निरआउयं निबंधइ पावमती रोद्दपरिणामो ॥ उम्मग्गदेसओ मग्गणासओ गूढहियय माइल्लो । सढसीलो स ससल्लो तिरिआउं बंधई जीवो ॥ पगतीएँ तणुकसाओ दानरओ सीलसंजमविहूणो । मज्झिमगुणेहि जुत्तो मणुयाउं बन्धई जीवो ॥ अणुव्वय महव्वएहि य बालतवोऽकामनिज्जराए य । देवाउयं निबंधइ सम्मद्दिट्ठी उ जो जीवो ॥ मणवयणकायवंको माइल्लो गारवेहि पडिबद्धो । असुभं बंधइ नामं तप्पडिपक्खेहि सुभनामं ॥
For Private & Personal Use Only
Jain Education International
१०१
www.jainelibrary.org