________________
आचाराङ्ग सूत्रम् १/-/१/१/- [नि. १८४] जघन्योत्कृष्टभेदभिन्ना ध्रुववर्गणाः, जघन्याभ्य उत्कृष्टधः सर्व्वजीवेभ्योऽनन्तगुणाः, तदुपरि रूपप्रक्षेपा– दिक्रमेणानन्ता एव जघन्योत्कृष्टभेदा अध्रुववर्गणाः, अध्रुवत्वादध्रुवाः, पाक्षिकसद्भावादध्रुवत्वं, जघन्योत्कृष्टभेदोऽनन्तरोक्त एव, तदुत्कृष्टोपरि रूपादिप्रवृद्धया जघन्योत्कृष्टभेदा अनन्ता एव शून्या वर्गणा भवन्ति, जघन्योत्कृष्टविशेषः पूर्ववत्, तासां संसारेऽप्यभावात् शून्यवर्गणा इत्यभिधानम्, एतदुक्तं भवति अध्रुववर्गणोपरि प्रदेशवृद्धयाऽनन्ता अपि न सम्भवन्तीति प्रथमा शून्यवर्गणा, तदुपरि रूपादिवृद्धया जघन्योत्कृष्टभेदाः प्रत्येकशरीरवर्गणा भवन्ति, जघन्यातः क्षेत्रपल्योपमा सङ्घयेयभागप्रदेशगुणोत्कृष्टथ, तदुपरि रूपोत्तरादिवृद्धया जघन्योत्कृष्टभेदा अनन्ता एव शून्यवर्गणा भवन्ति, जघन्यवर्गणात उत्कृष्टध त्वसमयेयभागप्रदेशगुणा, तदसङ्घयेयभागोऽप्यसङ्ख्येयलोकात्मकइति द्वितीया शून्यवर्गणा, तदुपरि रूपादिवृद्धयाबादरनिगोदशरीरवर्गणा जघन्यातः क्षेत्रपल्योपमासङ्घयेयभागप्रदेगुणोत्कृष्टथ, तदुपरि रूपादिवृद्धया जघन्योत्कृष्टभेदा तृतीया शून्यवर्गणा, उत्कृष्टा जघन्यातोऽसङ्ख्येयगुणा,
को गुणकार इति ?, उच्यते, अङ्गुलासङ्घयेयभागप्रदेशराशेरावलिकाकालासङ्घयेयभागसमयप्रमाणकृतपौनःपुन्यवर्गमूलस्यासङ्घयेयभागप्रदेशप्रमाण इति, तदुपरि रूपोत्तरवृद्धया जघन्योत्कृष्टभेदा चतुर्थी शून्यवर्गणा, जघन्यात उत्कृष्टा चतुरस्त्रीकृतलोकस्यासङ्ख्येयाः श्रेण्यः, ताश्च प्रतरासङ्घयेयभागतुल्या इति, तदुपरि रूपादिवृद्धया जघन्योत्कृष्टभेदा महास्कन्धवर्गणा, जघन्यात उत्कृष्टा क्षेत्रपल्योपमस्यासङ्घयेयगुणा संख्येयगुणा वेति । उक्ताः समासतो वर्गणाः, विशेषार्थिना तु कर्मप्रकृतिरवलोकनीयेति । साम्प्रतं प्रयोगकर्म, वीर्यान्तरायक्षयोपशमाविर्भूतवीर्येणात्मना प्रकर्षेण युज्यत इति प्रयोगः,
१००
सचमनोवाक्कायलक्षणः पञ्चदशधा, कथमिति ?, उच्यते, तत्र मनोयोगः सत्यासत्यमिश्रानुभयरूपश्चतुर्द्धा, एवं वाग्योगोऽपि काय योगः सप्तधा - औदारिकौदारिकमिश्रवैक्रियवैक्रियमिश्राहारकाहारकमिश्रकार्मणयोगभेदात्, तत्र मनोयोगो मनः पर्याप्तया पर्याप्तस्य मनुष्यादेः, दाग्योगोऽपि द्वीन्द्रियादीनाम्, औदारिकयोगस्तिर्यग्मनुजयोः शरीरपयप्तिरूद्धर्वं, तदारतस्तु मिश्रः, केवलिनोवा समुद्घातगतस्य द्वितीयषष्ठसप्तमसमयेषु, वैक्रियकाययोगो देवनारकबादरवायूनाम्, अन्यस्य वा वैक्रियलब्धिमतः, तन्मिश्रस्तु देवनारकयोरुत्पत्तिसमयेऽन्यस्य वा वैक्रियंनिर्वर्तयतः, आहारककाययोगश्चतुर्दशपूर्वविद आहारकशरीरस्थस्य, तन्मिश्रस्तु निर्वर्त्तनाकाले, कार्मणयोगो विग्रहगतौ केवलिसमुद्घाते वा तृतीयचतुर्थपञ्मसमयेष्विति । तदनेन पञ्चदशविधेनापि योगेनात्माऽष्टौ प्रदेशान् विहायोत्तप्तभाजनोदकवदुद्वर्त्तमानैः सर्वैरेवात्मप्रदेशैरात्मप्रदेशावष्टब्धाकाशदेशस्थं कार्मणशरीरयोग्यं कर्मदलिकं यद् बध्नाति तठप्रयोगकर्मेत्युच्यते, उक्तं च"जाव णं एस जीवे एयइ वेयइ चलइ फंदईत्यादि ताव णं अट्ठविहबंधए वा सत्तविहबंधए वा छव्विहबंधए वा एगविहबंधए वा नो णं अबंधए" ।
-
समुदानकर्मसम्पूर्वादाङ्पूर्व्वाच्च ददातेर्म्युडन्तात् पृषोदरादिपाठेन आकारस्योकारादेशेन रूपं भवति, तत्र प्रयोगकर्मणैकरूपतया गृहीतानां कर्मवर्गणानां सम्यग्मूलोत्तरप्रकृतिस्थित्यनुभावप्रदेशबन्धभेदेनाङ् मर्यादया देशबन्धो ज्ञानावरणीयादिः, उत्तरप्रकृतिबन्धस्तूच्यतेउत्तरप्रकृतिबन्धो ज्ञानावरणीयं पञ्चधा - मतिश्रुतावधिमनःपर्यायकेवलावरणभेदात्, तत्र
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org