________________
सप्तमाध्यायस्य प्रथमः पादः नुम्-आगमः
(२६) युजेरसमासे।७१। प०वि०-युजे: ६।१ असमासे ७१। स०-न समास इति असमास:, तस्मिन्-असमासे (नञ्तत्पुरुषः)। अनु०-अङ्गस्य, नुम्, सर्वनामस्थाने इति चानुवर्तते। अन्वय:-असमासे युजेरङ्गस्य सर्वनामस्थाने नुम् ।
अर्थ:-असमासे वर्तमानस्य युजेरङ्गस्य सर्वनामस्थाने परतो नुमागमो भवति।
उदा०-युङ्, युञ्जौ, युजः।
आर्यभाषा: अर्थ-(असमासे) समास से रहित (युजे:) युजि इस (अङ्गस्य) अङ्ग को (सर्वनामस्थाने) सर्वनामस्थान-संज्ञक प्रत्यय परे होने पर (नुम्) नुम् आगम होता है।
उदा०-युङ्। जोड़नेवाले। युञ्जौ। दो जोड़नेवाले। युञ्जः । सब जोड़नेवाले।
सिद्धि-युङ् । युज्+क्विन् । युज्+वि। युज्+० । युज्+सु । यु नुम् ज्+स्। युनुज्+० । युन् । युन् । युङ्।
यहां युजिर् योगे' (रुधाउ०) धातु से ऋत्विग्दधृक्०' (३।२।५९) से क्विन्' प्रत्यय है। इस सूत्र से असमास में विद्यमान 'युज्' को नुम्' आगम होता है। शेष कार्य प्राङ्' के समान है। ऐसे ही-युजौ, युञ्जः । नुम्-आगम:
(२७) नपुंसकस्य झलचः ७२। प०वि०-नपुंसकस्य ६।१ झलच: ६।१।
स०-झल् च अच् च एतयो: समाहारो झलच्, तस्य-झलच: (समाहारद्वन्द्व:)।
अनु०-अङ्गस्य, नुम्, सर्वनामस्थाने इति चानुवर्तते। अन्वय:-नपुंसकस्य झलचोऽङ्गस्य सर्वनामस्थाने नुम् ।
अर्थ:-नपुंसकलिङ्गस्य झलन्तस्याऽजन्तस्य चाऽङ्गस्य सर्वनामस्थाने परतो नुमागमो भवति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org