________________
पाणिनीय-अष्टाध्यायी-प्रवचनम्
७६६.
'स्वरितात् संहितायामनुदात्तानाम् ' ( १/२/३९ ) से स्वरित से परवर्ती 'तिप्' प्रत्यय के अनुदात्त को एकश्रुति स्वर होता है। ऐसे ही 'पठ व्यक्तायां वाचिं (भ्वा०प०) धातु से-पठेति ।
स्वरितादेशप्रतिषेधः
(२८) नोदात्तस्वरितोदयमगार्ग्यकाश्यपगालवानाम् । ६६ । प०वि०-न अव्ययपदम्, उदात्तस्वरितोदयम् १ । १ अगार्ग्यकाश्यपगालवानाम् ६।३।
स० - उदात्तश्च स्वरितश्च तौ उदात्तस्वरितौ, तौ उदयौ यस्मात् तत्-उदात्तस्वरितोदयम् ( इतरेतरयोगद्वन्द्वगर्भितबहुव्रीहि: ) । गार्ग्यश्च काश्यपश्च गालवश्च ते - गार्ग्यकाश्यपगालवा:, न गार्ग्यकाश्यपगालवा इति अगार्ग्यकाश्यपगालवा:, तेषाम्-अगार्ग्यकाश्यपगालवानाम् (इतरेतरयोगद्वन्द्वगर्भितनञ्तत्पुरुषः) ।
अनु० - संहितायाम्, अनुदात्तस्य, स्वरित इति चानुवर्तते । अन्वयः-संहितायाम् उदात्तोदयस्य स्वरितोदयस्य चानुदात्तस्याऽगार्ग्यकाश्यपगालवानां स्वरितो न ।
अर्थ:-संहितायां विषये उदात्तपरस्य स्वरितपरस्य चानुदात्तस्य स्थाने गार्ग्यकाश्यपगालववर्जितानामाचार्याणां मतेन स्वरितादेशो न भवति ।
उदा०-(उदात्तोदयः) गार्ग्युस्तत्र॑ । वात्स्य॒स्तत्र॑ । ( स्वरितोदयः ) गार्ग्य: क्वे । वात्स्यः क्व॑ ।
“उदात्तस्वरितपरस्य इति वक्तव्य उदयग्रहणं मङ्गलार्थम्, अनेकाचार्यसङ्कीर्तनं पूजार्थम् ” ( काशिका) ।
आर्यभाषाः अर्थ- (संहितायाम् ) सन्धि - विषय में (उदात्तस्वरितोदयस्य ) उदात्तपरक और स्वरितपरक (अनुदात्तस्य) अनुदात्त स्वर के स्थान में (अगार्ग्यकाश्यपगालवानाम्) गार्ग्य, काश्यप, गालव इन आचार्यों को छोड़कर शेष आचार्यों के मत में ( स्वरित: ) स्वरित आदेश (न) नहीं होता है।
उदा०- - ( उदात्तपरक) गार्ग्युस्तत्रे । गार्ग्य वहां है । वात्स्य॒स्तत्र॑ । वात्स्य वहां है । (स्वरितपरक ) गार्ग्य: क्वं । गार्ग्य कहां है? वात्स्य॒ क्वे । वात्स्य कहां है ?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org