________________
ष - आदेश:
अष्टमाध्यायस्य तृतीयः पादः
(६) इदुदुपधस्य चाप्रत्ययस्य । ४१ ।
प०वि० - इदुदुपधस्य ६ । १ च अव्ययपदम्, अप्रत्ययस्य ६ ।१ । स०-इच्च उच्च तौ इदुतौ तावुपधे यस्य स इदुदुपधः, तस्यइदुदुपधस्य (इतरेतरयोगद्वन्द्वगर्भितबहुव्रीहि: ) । न प्रत्यय इति अप्रत्ययः, तस्य-अप्रत्ययस्य (नञ्तत्पुरुषः ) ।
६१७
अनु०-पदस्य, संहितायाम्, विसर्जनीयस्य, षः, कुप्वोरिति चानुवर्तते अन्वयः-संहितायामप्रत्ययस्य इदुदुपधस्य च पदस्य विसर्जनीयस्य
कुप्वोः षः ।
अर्थ:-संहितायां विषये प्रत्ययवर्जितस्य इदुपधस्य उदुपधस्य च पदस्य विसर्जनीयस्य स्थाने च कुप्वोः परतः षकारादेशो भवति ।
उदा०-(इदुपध:) निस्-निष्कृतम्, निष्पीतम् । बहिस्-बहिष्कृतम्, बहिष्पीतम्। आविस्-आविष्कृतम्, आविष्पीतम्। (उदुपध:) दुस्-दुष्कृतम्, दुष्पीतम् । चतुर्-चतुष्कृतम्, चतुष्कपालम् । चतुष्कण्टकम्। चतुष्कलम् । प्रादुस्- प्रादुष्कृतम्, प्रादुष्पीतम् ।
आर्यभाषाः अर्थ- ( संहितायाम् ) सन्धि - विषय में ( अप्रत्ययस्य) प्रत्यय से भिन्न ( इदुदुपधस्य ) इकार उपधा और उकार उपधावाले ( पदस्य) पद के ( विसर्जनीयस्य ) विसर्जनीय के स्थान में (च) भी (कुप्वोः ) कवर्ग और पवर्ग वर्ण परे होने पर (षः) षकारादेश होता है।
Jain Education International
उदा०- (इकारोपध) निस्-निष्कृतम् । बदला चुकाना । निष्पीतम् । निश्चित पान । बहिस्- बहिष्कृतम्। बाहर करना, निकालना। बहिष्पीतम् । पीत पदार्थ को बाहर निकालना, वमन करना। आविस्- आविष्कृतम् । प्रकट करना । आविष्पीतम् । प्रकट रूप में पीना । (उकारोपध) दुस्- दुष्कृतम्। बुरा करना । दुष्पीतम् । सुरादि निकृष्ट पान करना । चतुर् - चतुष्कृतम् । चार बार करना । चतुष्कपालम् । चार कपालों में संस्कृत अन्न । चतुष्कण्टकम् । चार कण्टकों (शत्रु) वाला । चतुष्कलम् । चार कलाओंवाला । प्रादुस्-प्रादुष्कृतम्। प्रकट करना । प्रादुष्पीतम् । प्रकट रूप में पान करना ।
सिद्धि-निष्कृतम् । यहां निस्-उपपद 'डुकृञ् करणे' ( तना० उ० ) धातु से 'नपुंसके भावे क्त:' ( ३ | ३ | ११४ ) से भाव - अर्थ में 'क्त' प्रत्यय है। इस सूत्र से इकार उपधावाले 'निस्' पद के विसर्जनीय को कवर्ग (क) वर्ण परे होने पर षकारादेश होता है। ऐसे ही - निष्पीतम् आदि ।
For Private & Personal Use Only
www.jainelibrary.org