________________
४१
सप्तमाध्यायस्य प्रथमः पादः ध्वात्-आदेशः
(४२) ध्वमो ध्वात्।।२। प०वि०-ध्वम: ६१ ध्वात् ११। अनु०-अङ्गस्य, प्रत्ययस्य, छन्दसि इति चानुवर्तते । अन्वय:-छन्दसि अङ्गाद् ध्वम: प्रत्ययस्य ध्वात् ।
अर्थ:-छन्दसि विषयेऽङ्गाद् उत्तरस्य ध्वम: प्रत्ययस्य स्थाने ध्वादादेशो भवति।
उदा०-अन्तरेवोष्माणं वारयध्वात् (का०सं० १६ ।२१)। 'वारयध्वम्' इति प्राप्ते।
आर्यभाषा: अर्थ-(छन्दसि) वेदविषय में (अङ्गात्) अग से परे (ध्वम:) ध्वम् (प्रत्ययस्य) प्रत्यय के स्थान में (ध्वात्) ध्वात् आदेश होता है।
उदा०-अन्तरेवोष्माणं वारयध्वात (का०सं० १६ १२१)। वारयध्वात्-तुम निवारण करो। वारयध्वम्' यह रूप प्राप्त था।
सिद्धि-वारयध्वात् । वारि+लोट् । वारि+ल। वारि+ध्वम्। वारि+शप्+ध्वम् । वारे+अ+ध्वात् । वार् अय्+अ+ध्वात् । वारयध्वात्।
यहां वा वरणे (चु०उ०) इस णिजन्त-'वारि' धातु से लोट् च' (३।३।१६२) से लोट्' प्रत्यय है। तिप्तस्झि०' (३।४।७८) से लकार के स्थान में 'ध्वम्' आदेश है। इस सूत्र से 'ध्वम्' के स्थान में 'ध्वात्’ आदेश होता है। निपातनम्
(४३) यजध्वैनमिति च।४३। प०वि०-यजध्व क्रियापदम्, एनम् २१ इति अव्ययपदम्, च अव्ययपदम्।
अनु०-अङ्गस्य, छन्दसि, ध्वम इति चानुवर्तते । “लोपस्त आत्मनेपदेषु' (७।१।४१) इत्यस्माच्च लोप इत्यनुवर्तनीयम् ।
अन्वय:-छन्दसि यजध्वम् इत्यङ्गस्य एनमिति च (म-लोप:)।
अर्थ:-छन्दसि विषये यजध्वम् इत्यस्य अङ्गस्य एनम् इति शब्दे च परतो मकारलोपो निपात्यते।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org