________________
अष्टमाध्यायस्य प्रथमः पादः
४२६
वान्नावादेशौ(३) युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वान्नावौ।२०।
प०वि०-युष्मद्-अस्मदो: ६।२ षष्ठी-चतुर्थी-द्वितीयास्थयो: ६।२ वान्नावौ १।२।
स०-युष्मच्च अस्मच्च तौ युष्मदस्मदौ, तयोः-युष्मदस्मदो: (इतरेतरयोगद्वन्द्वः) । षष्ठी च चतुर्थी च द्वितीया च ता: षष्ठीचतुर्थीद्वितीया:, षष्ठीचतुर्थीद्वितीयासु यौ तिष्ठतस्तौ षष्ठीचतुर्थीद्वितीयास्थौ, तयो:षष्ठीचतुर्थीद्वितीयास्थयो: (इतरेतरयोगद्वन्द्वगर्भितोपपदतत्पुरुषः)। वां च नौ च तौ-वाम्नावौ (इतरेतरयोगद्वन्द्व:)।
अनु०-पदस्य, पदात्, अनुदात्तम्, सर्वम्, अपादादाविति चानुवर्तते।
अन्वय:-अपादादौ पदात् षष्ठीचतुर्थीद्वितीयास्थयोर्युष्मदस्मदो: पदयो: वाम्नावौ, सर्वो चानुदातौ।
अर्थ:-अपादादौ वर्तमानयो: पदात् परयो: षष्ठीचतुर्थीद्वितीयास्थयोयुष्मदस्मदो: पदयो: स्थाने यथासंख्यं वाम्नावादेशौ भवतः, तौ च सर्वानुदात्तौ भवत:।
उदा०-(युष्मद्) षष्ठी-ग्रामो वा स्वम् । चतुर्थी-ग्रामो वां दीयते। द्वितीया-ग्रामो वां पश्यति । (अस्मद्) षष्ठी-ग्रामो नौ स्वम् । चतुर्थी-ग्रामो नौ दीयते। द्वितीया-ग्रामो नौ पश्यति । अपादादाविति किम् ?
रुद्रो विश्वेश्वरो देवो युष्माकं कुलदेवता।
स एव नाथो भगवानस्माकं शत्रुमर्दनः ।। आर्यभाषा: अर्थ-(अपादादौ) पाद के आदि में अविद्यमान (पदात्) पद से परवर्ती (षष्ठीचतुर्थीद्वितीयास्थयो:) षष्ठी, चतुर्थी और द्वितीया विभक्ति में अवस्थित (युष्मदस्मदो:) युष्मद्, अस्मद् के (पदयो:) पदों के स्थान में यथासंख्य (वाम्नावौ) वाम्, नौ आदेश होते हैं और वे दोनों (सर्वो, अनुदात्तौ) सर्वानुदात्त होते हैं।
उदा०-(युष्मद्) षष्ठी-ग्रामो वां स्वम् । यह ग्राम तुम दोनों की सम्पत्ति है। चतुर्थी-ग्रामो वां दीयते । यह ग्राम तुम दोनों को दिया जाता है। द्वितीया-ग्रामो वां पश्यति । यह ग्राम तुम दोनों को देखता है। (अस्मद्) षष्ठी-ग्रामो नौ स्वम् । यह ग्राम हम दोनों की सम्पत्ति है। चतुर्थी-ग्रामो नौ दीयते । यह ग्राम हम दोनों को दिया जाता है। द्वितीया-ग्रामो नौ पश्यति। यह ग्राम हम दोनों को देखता है।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org