________________
पाणिनीय-अष्टाध्यायी प्रवचनम्
सिद्धि - (१) प्रावाहणेयि: । यहां ठक् प्रत्ययान्त 'प्रवाहणेय' शब्द से 'अत इञ्' (४।१।९५) से युवापत्य अर्थ में 'इञ्' प्रत्यय है। इस सूत्र से इसके उत्तरपद को वृद्धि होती है । पूर्वपद को विकल्प से आदिवृद्धि होती है- प्रवाहणेयि: ।
२४४
(२) प्रावाहणेयकम् । यहां ठक्-प्रत्ययान्त 'प्रवाहणेय' शब्द से 'गोत्रचरणाद् वुञ्' (४।३।१२६) से इदम्-अर्थ में 'वुञ्' प्रत्यय है। सूत्र - कार्य पूर्ववत् है । पूर्वपद को विकल्प से आदिवृद्धि होती है- प्रवाहणेयकम् ।
उभयपदवृद्धिः {पूर्वपदस्य वा } -
(३०) नञः शुचीश्वर क्षेत्रज्ञकुशलनिपुणानाम् । ३० । प०वि० - नञः ५ ।१ शुचि - ईश्वर- क्षेत्रज्ञ - कुशल- निपुणानाम् ६ ।३ । सo - शुचिश्च ईश्वरश्च क्षेत्रज्ञश्च कुशलश्च निपुणश्च ते शुचीश्वरक्षेत्रज्ञकुशलनिपुणा:, तेषाम् शुचीश्वरक्षेत्रज्ञकुशलनिपुणानाम् (इतरेतरयोगद्वन्द्वः) ।
अनु० - अङ्गस्य, वृद्धि:, अच:, ञ्णिति, तद्धितेषु, अचाम्, आदे:, किति, उत्तरपदस्य, पूर्वस्य तु वेति चानुवर्तते ।
अन्वयः - नञः शुचीश्वरक्षेत्रज्ञकुशलनिपुणानामङ्गानाम् उत्तरपदस्याऽचामादेरचस्तद्धिते ञ्णिति किति च वृद्धि:, पूर्वस्य तु वा ।
अर्थ:- नत्र उत्तरेषां शुचीश्वरक्षेत्रज्ञकुशलनिपुणानामङ्गानाम् उत्तरपदस्याऽचामादेरचः स्थाने, तद्धिते ञिति णिति किति च प्रत्यये परतो वृद्धिर्भवति, पूर्वपदस्य तु विकल्पेन भवति ।
उदा०- (शुचिः) अशुचेर्भावः कर्म वेति आशौचम्, अशौचम्। ( ईश्वर: ) अनीश्वरस्य भावः कर्म वेति आनैश्वर्यम्, अनैश्वर्यम् । ( क्षेत्रज्ञ: ) अक्षेत्रज्ञस्य भावः कर्म वेति आक्षेत्रज्ञम्, अक्षेत्रज्ञम् । (कुशलः) अकुशलस्येदमिति आकौशलम्, अकौशलम् । (निपुणः ) निपुणस्येदमिति आनैपुणम्, अनैपुणम् ।
आर्यभाषाः अर्थ- (नञः) नञ् से परे (शुचि० ) शुचि, ईश्वर, क्षेत्रज्ञ, कुशल, निपुण इन (अङ्गानाम्) अङ्गों के ( उत्तरपदस्य ) उत्तरपद के (अचाम्) अचों में से (आदेः) आदिम (अच: ) अच् के स्थान मे (तद्धिते) तद्धित-संज्ञक (ञ्णिति) ञित् णित् और ( किति) कित् प्रत्यय परे होने पर (वृद्धि:) वृद्धि होती है (पूर्वस्य) पूर्वपद को (तु) तो (वा) विकल्प से होती है।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org