________________
१३४
पाणिनीय-अष्टाध्यायी-प्रवचनम् अनु०-अङ्गस्य, छन्दसि इति चानुवर्तते।
अर्थ:-छन्दसि विषये ग्रसित, स्कभित, स्तभित, उत्तभित, चत्त, विकस्त, विशस्तृ, शंस्तु, शास्तृ, तरुत, तरूतृ, वरुतृ, वरूतृ, वरूत्री,
उज्ज्वलिति, क्षरिति, क्षमिति, वमिति, अमिति इत्येतानि शब्दरूपाणि निपात्यन्ते। उदाहरणम्
(१) ग्रसित:-ग्रसितं वा एतत् सोमस्य (मै०सं० ३।७।४) । ग्रस्तमिति भाषायाम्।
(२) स्कभित:-विष्कभिते अजरे (ऋ० ६।७०।१)। विस्कब्ध इति भाषायाम्।
(३) स्तभित:-येन स्त: स्तभितम् (ऋ० १० ११२१ १५) । स्तब्धमिति भाषायाम्।
(४) उत्तभित:-सत्येनोत्तभिता भूमि: (ऋ० १० १८५।१)। उत्तब्धेति भाषायाम्।
(५) चत्त:-चत्ता वर्षेण विद्युत्। चतितेति भाषायाम् ।
(६) विकस्त:-उत्तानाया हृदयं यद् विकस्तम् (मै०सं० २ १७।४) । विकसितमिति भाषायाम्।
(७) विशस्ता-एकस्त्वष्टुरश्वस्य विशस्ता (ऋ० १।१६२ ।१९)। विशसितेति भाषायाम्।
(८) शंस्ता-उत शंस्ता सुविप्त: (ऋ० १।१६२ ।५)। शंसितेति भाषायाम्।
(९) शास्ता-प्रशास्ता (ऋ० १९४।६)। प्रशासितेति भाषायाम् । (१०) तरुता-तरुतारं रथानाम् (ऋ० १०।१७८।१)। (११) तरूता-तरूतारम् । तरितारम् । (१२) वरुता-वरुतारं रथानाम्।
(१३) वरूता-वरूतारं रथानाम्। वरितारम् । वरूतारमिति च भाषायाम्।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org