________________
पाणिनीय-अष्टाध्यायी प्रवचनम्
अनु० - अङ्गस्य भस्य, अल्लोप:, अन इति चानुवर्तते । अन्वयः-अनो भस्य अङ्गस्य ङिश्योर्विभाषाऽल्लोपः । अर्थ:-अन्-अन्तस्य भसंज्ञकस्य अङ्गस्य ङिप्रत्यये शीप्रत्यये च परतो विकल्पेन अकारलोपो भवति ।
उदा०- (ङि : ) राज्ञि, राजनि । साम्नि, सामनि । (शी:) साम्नी, सामनी ।
६८६
आर्यभाषाः अर्थ- (अन:) 'अन्' जिसके अन्त में है उस (भस्य ) भ-संज्ञक (अङ्गस्य) अङ्ग के (अल्लोपः ) अकार का लोप होता है (ङिश्यो :) ङि और शी प्रत्यय परे होने पर ( विभाषा) विकल्प से।
उदा०- -(ङि) राज्ञि, राजनि । राजा में/पर। साम्नि, सामनि । साम में / पर। (शी) साम्नी, सामनी । दो साम (मन्त्र) ।
सिद्धि - (१) राज्ञि । राजन्+ङि । राजन्+इ। राज्न्+इ। राज्ञ्+इ। राज्ञि ।
यहां 'राजन्' शब्द से 'ङि' प्रत्यय परे होने पर इस सूत्र से 'राजन्' के अकार का लोप होता है । 'स्तो: श्चुना श्चुः' (८|४ | ४०) से तवर्ग नकार को चवर्ग ञकार आदेश है । विकल्प - पक्ष में अकार का लोप नहीं है- राजनि । ऐसे ही 'सामन्' शब्द से साम्नि, सामनि ।
(२) साम्नी । सामन् + औ । सामन्+शी । सामन्+ई। साम्न्+ई। साम्नी । यहां 'सामन्' शब्द से 'औ' प्रत्यय है। 'नपुंसकाच्च' (७ 1१1१९) से 'औ' के स्थान में 'शी' आदेश होता है। इस सूत्र से 'शी' प्रत्यय परे होने पर 'सामन्' के अकार का लोप होता है। विकल्प- पक्ष में अकार का लोप नहीं है-सामनी ।
अकारलोप- प्रतिषेधः
(६) न संयोगाद् वमन्तात् । १३७ । प०वि०-न अव्ययपदम्, संयोगात् ५ ।१ वमन्तात् ५ ।१ । स०- वश्च मश्च तौ वमौ वमावन्ते यस्य स वमन्त:, तस्मात्वमन्तात् (इतरेतरयोगद्वन्द्वगर्भितबहुव्रीहि: )
अनु०-अङ्गस्य, भस्य, अल्लोप:, अन इति चानुवर्तते । अन्वयः-वमन्तात् संयोगाद् भस्य अङ्गस्य अनोऽल्लोपो न ।
अर्थ:-वकारान्ताद् मकारान्ताच्च संयोगाद् उत्तरस्य भसंज्ञकस्य अङ्ग्ङ्गस्य अनोऽकारस्य लोपो न भवति ।