________________
इकारादेश:
षष्ठाध्यायस्य चतुर्थः पादः
६६३
(३९) इद् दरिद्रस्य । ११४ ।
प०वि० - इद् १ ।१ दरिद्रस्य ६ । १ । अनु०-अङ्गस्य, क्ङिति, सार्वधातुके, आत:, हलि इति चानुवर्तते । अन्वयः - दरिद्रस्य अङ्गस्यातो सार्वधातुके क्ङिति इत् । अर्थः-दरिद्रातेरङ्गस्य आकारस्य स्थाने हलादौ सार्वधातुके किति ङिति च प्रत्यये परत इकारादेशो भवति ।
उदा० - तौ दरिद्रितः । युवां दरिद्रिथः । आवां दरिद्रिवः । वयं दरिद्रिमः । आर्यभाषाः अर्थ- ( दरिद्रस्य) दरिद्रा (अङ्गस्य) अङ्ग के (आत:) आकार के स्थान में (हलि) हलादि (सार्वधातुके) सार्वधातुक ( क्ङिति ) कित् और ङित् प्रत्यय परे होने पर ( इत्) इकारादेश होता है।
उदा० - तौ दरिद्रित: । वे दोनों दरिद्र होते हैं। युवां दरिद्रिथः । तुम दोनों दरिद्र होते हो। आवां दरिद्रिवः । हम दोनों दरिद्र होते हैं । वयं दरिद्रिमः । हम सब दरिद्र होते हैं ।
सिद्धि-दरिद्रितः । दरिद्रा+लट् । दरिद्रा+ल् । दरिद्रा+तस् । दरिद्रा+शप्+तस् । दरिद्रा+०+तस् । दरिद्र्ह+तस् । दरिद्रितस् । दरिद्रितः ।
यहां 'दरिद्रा दुर्गतौं' (अदा०प०) धातु से 'वर्तमाने लट्' (३ ।२ ।१२३ ) से 'लट्' प्रत्यय है । 'अदिप्रभृतिभ्यः शप:' ( २/४ /७२ ) से 'शप्' विकरण- प्रत्यय का लुक् होता है। इस सूत्र से 'दरिद्रा' अङ्ग के आकार को हलादि, सार्वधातुक, ङित् 'तस्' प्रत्यय परे होने पर इकार आदेश होता है । 'तस्' प्रत्यय 'सार्वधातुकमपित्' (१।२।४) से ङिद्वत् होता है। ऐसे ही 'दरिद्रिथ:' आदि ।
विशेषः सूत्रपाठ में ''दरिद्रस्य' पद में 'दरिद्रा' धातु का ह्रस्वपाठ छान्दस है “छन्दोवत् सूत्राणि भवन्ति” ( महाभाष्यम्) ।
इकारादेश-विकल्पः
(४०) भियोऽन्यतरस्याम् ।११५ ।
प०वि० - भियः ६ । १ अन्यतरस्याम् अव्ययपदम् ।
अनु० - अङ्गस्य, क्ङिति सार्वधातुके, हलि, इद् इति चानुवर्तते ।
अन्वयः - भियोऽङ्गस्य हलि सार्वधातुके क्ङिति अन्यतरस्याम् इत् ।
,