________________
५२०
दीर्घः
पाणिनीय-अष्टाध्यायी-प्रवचनम्
(२) कर्णे लक्षणस्याविष्टाष्टपञ्चमणिभिन्नच्छिन्नच्छिद्रस्रुवस्वस्तिकस्य । ११५ ।
प०वि०-कर्णे ७ ।१ लक्षणस्य ६ । १ अविष्ट - अष्ट-पञ्च-मणि-भिन्नछिन्न- छिद्र - स्रुव - स्वस्तिकस्य ६ । १ ।
सo - विष्टं च अष्ट च पञ्च च मणिश्च भिन्नं च छिन्नं च छिद्रं च स्रुवश्च स्वस्तिकं च एतेषां समाहारोऽविष्टाष्टपञ्चमणिभिन्नच्छिन्नच्छिद्रस्रुवस्वस्तिकम्, न विष्टाष्टपञ्चमणिभिन्नच्छिन्नच्छिद्रस्रुवस्वस्तिकमिति अविष्टाष्टपञ्चमणिभिन्नच्छिन्नच्छिद्रस्रुवस्वस्तिकम्, तस्य अविष्टाष्टपञ्चमणिभिन्नच्छिन्नच्छिद्रस्रुवस्वस्तिकस्य (समाहारद्वन्द्वगर्भितनञ्तत्पुरुषः)
अनु० - उत्तरपदे, पूर्वस्य, दीर्घ, अणः, संहितायामिति चानुवर्तते । अन्वयः-संहितायाम् अविष्टाष्टपञ्चमणिभिन्नच्छिन्नच्छिद्रस्रुवस्वस्तिकस्य लक्षणस्य पूर्वस्याण: कर्णे उत्तरपदे दीर्घः ।
अर्थ:-संहितायां विषयेऽविष्टाष्टपञ्चमणिभिन्नच्छिन्नच्छिद्रस्रुवस्वस्तिकस्य लक्षणवाचिनः शब्दस्य पूर्वस्याण: कर्णशब्दे उत्तरपदे परतो दीर्घो भवति ।
उदा०-दात्रं कर्णे यस्य स: - दात्राकर्णः । द्विगुणाकर्णः । त्रिगुणाकर्ण: । द्व्यङ्गुलाकर्णः । त्र्यगुलाकर्णः ।
“यत् पशूनां स्वामिविशेषसम्बन्धज्ञापनार्थं दात्राकारादि क्रियते तदिह लक्षणं गृह्यते” (काशिका) ।
आर्यभाषाः अर्थ-(संहितायाम् ) संहिता विषय में (अविष्ट० स्वस्तिकस्य) विष्ट, अष्ट, पञ्च, मणि, भिन्न, छिन्न, छिद्र, स्रुव और स्वस्तिक शब्दों से भिन्न (लक्षणस्य ) लक्षणवाची शब्द के (पूर्वस्य) पूर्ववर्ती (अण:) अण् को (कर्णे) कर्ण शब्द (उत्तरपदे) उत्तरपद होने पर (दीर्घ) दीर्घ होता है।
उदा० - दात्राकर्ण: । वह पशु की जिसके कान पर दांती का लक्षण (चिह्न) है। द्विगुणाकर्ण: । कान पर दो ओर से मुड़े हुये लक्षणवाला पशु। त्रिगुणाकर्णः । कान पर तीन ओर से मुड़े हुये लक्षणवाला पशु । द्व्यङ्गुलाकर्णः । कान पर दो अंगुलियों के लक्षणवाला पशु । त्र्यङ्गुलाकर्णः । कान पर तीन अंगुलियों के लक्षणवाला पशु ।