________________
षष्ठाध्यायस्य तृतीयः पादः
यथोपदिष्टं साधुत्वम्
५१३
(३२) पृषोदरादीनि यथोपदिष्टम् ।१०६ ।
प०वि० - पृषोदरादीनि १ । ३ यथोपदिष्टम् १।१। स०-पृषोदर आदिर्येषां तानीमानि - पृषोदरादीनि (बहुव्रीहि: ) । शिष्टैर्यानि यानि उपदिष्टानीति यथोपदिष्टम् । 'यथाऽसादृश्ये (२ 1१1७ ) इति वीप्सार्थेऽव्ययीभावसमासः ।
अन्वयः-पृषोदरादीनि यथोपदिष्टं साधूनि ।
अर्थ :- पृषोदरादीनि शब्दरूपाणि यथोपदिष्टम् = शिष्टैर्यथा यथोच्चारितानि तानि तथैव साधूनि भवन्ति । उदाहरणम्
(१) पृषद् उदरं यस्य तत् - पृषोदरम् । पृषद् उद्वानं यस्य तत् पृषोद्वानम् । अत्र तकारलोपो भवति ।
( २ ) वारिवाहको बलाहकः । अत्र वारिशब्दस्य ब-आदेशः, उत्तरपदादेश्च लत्वं भवति ।
(३) जीवनस्य
मूत इति जीमूत: । अत्र वन-शब्दस्य लोपो भवति । (४) शवानां शयनमिति श्मशानम् । अत्र शवशब्दस्य श्मादेश: शयनशब्दस्य च शानादेशो भवति ।
( ५ ) ऊर्ध्वं खमस्येति उलूखलम् । अत्र ऊर्ध्वखशब्दयोर्यथासंख्यम् उलू-खलावादेशौ भवतः ।
(६) पिशिताश इति पिशाच: । अत्र पिशित - आशशब्दयोर्यथायोगं पिश - आचावादेशौ भवतः ।
(७) ब्रुवन्तोऽस्यां सीदन्तीति बृसी । अत्र 'षद् विशरणगत्यवसादनेषु' (भ्वा०प० ) इत्यस्माद् धातोरधिकरणे कारके डट् प्रत्यय:, ब्रुवत् - उपपदस्य च स्थाने ब - आदेशो भवति ।
(८) मह्यां रौतीति मयूरः । अत्र 'रु शब्दे' (अ०प०) इत्यस्माद् धातो: 'नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः' (३ । १ । १३४ ) इत्यच् प्रत्ययः, टेर्लोपः, महीस्थाने च मयू - आदेशो भवति ।