________________
पाणिनीय-अष्टाध्यायी-प्रवचनम्
सo - आज्ञातुं शीलं यस्य स: आज्ञायी, तस्मिन् - आज्ञायिनि
( उपपदतत्पुरुषः) ।
४१६
अनु० - अलुक्, उत्तरपदे, तृतीयायाः, मनस इति चानुवर्तते । अन्वयः - मनसस्तृतीयाया आज्ञायिनि उत्तरपदे चालुक् । अर्थः-मन:शब्दात् परस्यास्तृतीयाया आज्ञायिनि शब्दे चोत्तरपदेऽलुग्
भवति ।
उदा० - मनसाऽऽज्ञातुं शीलं यस्य सः - मनसाज्ञायी ।
आर्यभाषा: अर्थ- (मनस:) मनस्-शब्द से परे (तृतीयायाः) तृतीया विभक्ति का (आज्ञायिनि) आज्ञायिन् शब्द ( उत्तरपदे ) उत्तरपद होने पर (अलुक् ) लुक् नहीं होता है ।
उदा० - मनसाज्ञायी । मन से आज्ञा करने का स्वभावी ।
सिद्धि-मनसाज्ञायी। यहां मनस् और आज्ञायिन् शब्दों का कर्तृकरणे कृता बहुलम् ' (२1१1३२ ) से तृतीया तत्पुरुष समास है। इस सूत्र से मनस् शब्द से परे आज्ञायिन् उत्तरपद होने तृतीया विभक्ति का लुक नहीं होता है ।
तृतीया - अलुक् -
(६) आत्मनश्च पूरणे । ६ ।
प०वि०-आत्मन: ५।१ च अव्ययपदम्, पूरणे ७ । १ । अनु० - अलुक, उत्तरपदे, तृतीयाया इति चानुवर्तते । अन्वयः-आत्मनश्च तृतीयायाः पूरणे उत्तरपदेऽलुक् । अर्थ:-आत्मनः शब्दाच्च परस्यास्तृतीयायाः पूरणप्रत्ययान्ते शब्दे उत्तरपदेऽलुग् भवति।
उदा० - आत्मना पञ्चम इति आत्मनापञ्चमः । आत्मनाषष्ठः ।
आर्यभाषाः अर्थ- (आत्मन: ) आत्मन् शब्द से परे (च) भी (तृतीयायाः ) तृतीयाविभक्ति का ( पूरण) पूरण- प्रत्ययान्त शब्द ( उत्तरपदे ) उत्तरपद होने पर (अलुक्) लुक् नहीं होता है।
उदा०-आत्मनापञ्चमः। अपने से पांचवां पुरुष । आत्मनाषष्ठः । अपने से छठा
पुरुष ।