SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ षष्ठाध्यायस्य द्वितीयः पादः ४०१ स०-स्फिगश्च पूतश्च वीणा च अञ्जस् च अध्वा च कुक्षि च सीरनाम च नाम च एतेषां समाहार:-स्फिगपूतवीणाञ्जोऽध्वकुक्षिसीरनामनाम (समाहारद्वन्द्व:)। अनु०-उदात्त:, उत्तरपदम्, अन्त:, समासे, अपादिति चानुवर्तते। अन्वय:-समासेऽपाद् उपसर्गात् स्फिगपूतवीणाञ्जोऽध्वकुक्षिसीरनामनाम चोत्तरपदम् अन्त उदात्त:। अर्थ:-समासमात्रेऽपादुपसर्गात्पराणि स्फिगपूतवीणाजोऽध्वकुक्षिसीरनामनामान्युत्तरपदानि अन्तोदात्तानि भवन्ति। उदा०-(स्फिग:) अपगतं स्फिगं यस्मात्, तत्-अपस्फ़िगम् (बहुव्रीहिः)। अपगतं स्फिगमिति अपस्फिगम् (प्रादितत्पुरुष:)। अप स्फिगादिति अपस्फिगम् (अव्ययीभाव:)। (पूत:) अपगतं पूतं यस्मात् तत्-अपपूतम् (बहुव्रीहिः)। अपगतं पूतमिति अपपूतम् (प्रादितत्पुरुषः)। अप पूतादिति अपपूतम् (अव्ययीभाव:)। (वीणा) अपगता वीणा यस्मात् तत्-अपवीणम् (बहुव्रीहि:)। अपगता वीणेति अपवीणम् (प्रादितत्पुरुषः) । अप वीणाया इति अपवीणम् (अव्ययीभाव:) । (अज:) अपगतम् अञ्जो यस्मात् तत्-अपाञ्ज: (बहुव्रीहि:)। अपगतम् अञ्ज इति अपाञ्ज: (प्रादितत्पुरुषः) । अप अञ्जस इति अपाज: (अव्ययीभाव:)। (अध्वा) अपगतोऽध्वा यस्य स:-अपाध्वा (बहुव्रीहिः)। अपगतोऽध्वा इति अपाध्वा (प्रादितत्पुरुष:)। अप अध्वन इति अपाध्वा (अव्ययीभाव:) । (कुक्षि:) अपगत: कुक्षिर्यस्या सा-अपकुक्षि: (बहुव्रीहिः)। अपगत: कुक्षिरिति अपकुक्षि: (प्रादितत्पुरुष:)। अप कुक्षेरिति अपकुक्षि (अव्ययीभाव:) । (सीरनाम) अपगत: सीरो यस्मात् स:-अपसीर: (बहुव्रीहिः)। अपगत: सीर इति अपसीर: (प्रादितत्पुरुषः)। अप सीरादिति अपसीरम् (अव्ययीभाव:)। एवम्-अपहलम्, अपलाङ्गलम्। (नाम) अपगतं नाम यस्मात् तत्-अपनाम (बहुव्रीहि:)। अपगतं नाम इति अपनाम (प्रादितत्पुरुष:)। अप नाम्न इति अपनाम (अव्ययीभाव:)। आर्यभाषा: अर्थ-(समासे) समास मात्र में (अपात्) अप (उपसर्गात्) उपसर्ग से परे (स्फिग नाम) स्फिग, पूत, वीणा, अञ्जस्. अध्वन्, कुक्षि, सीरनाम हलवाची शब्द और नाम (उत्तरपदम्) उत्तरपद (अन्त उदात्तः) अन्तोदात्त होते हैं।
SR No.003300
Book TitlePaniniya Ashtadhyayi Pravachanam Part 05
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages754
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy