________________
३६८
अन्तोदात्तम्
पाणिनीय-अष्टाध्यायी-प्रवचनम्
(४१) प्रादस्वाङ्गं संज्ञायाम् ॥ १८३ ।
प०वि० - प्रात् ५ ।१ अस्वाङ्गम् १ ।१ संज्ञायाम् ७।१ । सo - स्वस्य अङ्गमिति स्वाङ्गम् न स्वाङ्गमिति अस्वाङ्गम् (षष्ठीतत्पुरुषगर्भितनञ्तत्पुरुषः )
अनु०-उदात्तः, उत्तरपदम्, अन्तः, उपसर्गात् समासे इति चानुवर्तते । अन्वयः-समासे संज्ञायां प्राद् उपसर्गाद् अस्वाङ्गम् उत्तरपदम् अन्त
उदात्तः ।
अर्थ:-समासमात्रे संज्ञायां च विषये प्राद् उपसर्गात् परम् अस्वाङ्गवाचि उत्तरपदम् अन्तोदात्तं भवति ।
उदा०-प्रगतं कोष्ठमिति प्रकोष्ठम् । प्रगतं गृहमिति प्रगृ॒हम् । प्रगतं द्वारमिति प्रद्वारम् ।
आर्यभाषाः अर्थ- (समासे) समासमात्र में तथा (संज्ञायाम् ) संज्ञाविषय में (प्रात्) प्र (उपसर्गात्) उपसर्ग से परे (अस्वाङ्गम्) स्वाङ्गवाची शब्द से भिन्न (उत्तरपदम् ) उत्तरपद को (अन्त उदात्त:) अन्तोदात्त होता है।
उदा०
- प्रकोष्ठम् । कोहनी के नीचे का भाग। दरवाजे के समीप का कमरा। प्रग्रहम् । घर का आंगन। प्रद्वारम् । दरवाजे के सामने का स्थान ।
सिद्धि-प्रकोष्ठम्। यहां प्र और कोष्ठ शब्दों का 'कुगतिप्रादयः' (२/२ 1१८) से प्रादितत्पुरुष समास है । इस सूत्र से इस समास में तथा संज्ञाविषय में प्र-उपसर्ग से परे अस्वाङ्गवाची कोष्ठ उत्तरपद को अन्तोदात्त स्वर होता है। ऐसे ही प्रग्रहम्, प्रद्वारम् ।
अन्तोदात्तम्
(४२) निरुदकादीनि च । १८४ |
प०वि० निरुदक आदीनि १ ३ च अव्ययपदम् । स०-निरुदकम् आदिर्येषां तानि - निरुदकादीनि ( बहुव्रीहि: ) । अनु०- उदात्त:, अन्त:, समासे इति चानुवर्तते ।
अन्वयः - समासे निरुदकादीनि चान्त उदात्त: ।
अर्थ:-समासमात्रे निरुदकादीनि शब्दरूपाणि चान्तोदात्तानि भवन्ति ।