________________
३८१
षष्ठाध्यायस्य द्वितीयः पादः अन्वय:-बहुव्रीहौ स्वाङ्गं मुखम् उत्तरपदम् अन्तोदात्त:।
अर्थ:-बहुव्रीहौ समासे स्वाङ्गवाचि मुखमित्युत्तरपदम् अन्तोदात्तं भवति।
उदा०-गौरं मुखं यस्य स:-गौरमुख: । भद्रमुख: ।
आर्यभाषा: अर्थ-(बहुव्रीहौ) बहुव्रीहि समास में (स्वाङ्गम्) स्वाङ्गवाची (मुखम्) मुख-शब्द (उत्तरपदम्) उत्तरपद में (अन्त उदात्त:) अन्तोदात्त होता है।
उदा०-गौरमुख: । गौर वर्ण है मुख जिसका वह पुरुष । भद्रमुखः । भद्र-सुखकारी है मुख जिसका वह पुरुष।
सिद्धि-गौरमुख: । यहां गौर और मुख शब्दों का 'अनेकमन्यपदार्थे (२।२।२४) से बहुव्रीहि समास है। इस सूत्र से बहुव्रीहि समास में स्वाङ्गवाची मुख' शब्द उत्तरपद को अन्तोदात्त स्वर होता है। ऐसे ही-भद्रमुखः । अन्तोदात्तप्रतिषेधः(२६) नाव्ययदिशब्दगोमहत्थूलमुष्टिपृथुवत्सेभ्यः ।१६८।
प०वि०-न अव्ययपदम्, अव्यय-दिक्शब्द-गो-महत्-स्थूल-मुष्टिपृथु-वत्सेभ्य: ५।३।
स०-अव्ययं च दिक्शब्दश्च गौश्च महच्च स्थूलं च मुष्टिश्च पृथु च वत्सश्च ते-अव्ययदिक्शब्दगोमहत्स्थूलमुष्टिपृथुवत्सा:, तेभ्य:-अव्ययदिक्शब्दगोमहत्स्थूलमुष्टिपृथुवत्सेभ्य: (इतरेतरयोगद्वन्द्व:)।
अनु०-उदात्त:, उत्तरपदम्, अन्त:, बहुव्रीहौ, मुखम्, स्वाङ्गमिति चानुवर्तते।
अन्वय:-बहुव्रीहौ अव्ययदिक्शब्दगोमहत्स्थूलमुष्टिपृथुवत्सेभ्य: स्वाङ्गं मुखम् उत्तरपदम् अन्त उदात्तो न।
अर्थ:-बहुव्रीहौ अव्ययदिक्शब्दगोमहत्स्थूलमुष्टिपृथुवत्सेभ्यः परं स्वाङ्गवाचि मुखमित्युत्तरपदम् अन्तोदात्तं न भवति । ___उदा०-(अव्ययम्) उच्चैर्मुखं यस्य स:-उच्चैर्मुखः। नीचैर्मुखः । (दिक्शब्द:) प्राङ् मुखं यस्य स:-प्राङ्मुख: । प्रत्यङ्मुखः । (गौ:) गौरिव मुखं यस्य स:-गोमुखः । (महत्) महद् मुखं यस्य स:-महामुखः । (स्थूलम्)