________________
प्रकृतिस्वरविकल्पः
षष्ठाध्यायस्य द्वितीयः पादः
(५६) प्रथमोऽचिरोपसम्पत्तौ । ५६ ।
प०वि०-प्रथमः १।१ अचिरोपसम्पत्तौ ७।१ ।
स०-अचिरा चेयमुपसम्पत्तिरिति अचिरोपसम्पत्तिः, तस्याम्-अचिरोपसम्पत्तौ ( कर्मधारयतत्पुरुषः) । उपसम्पत्तिः = उपश्लेषः सम्बन्ध इति यावत्, अभिनव इत्यर्थः 1
२८५
अनु०-प्रकृत्या, पूर्वपदम्, अन्यतरस्यामिति चानुवर्तते । अन्वयः-अचिरोपसम्पत्तौ प्रथम: पूर्वपदमन्यतरस्यां प्रकृत्या । अर्थः-अचिरोपसम्पत्तौ गम्यमानायां प्रथमशब्द: पूर्वपदं विकल्पेन प्रकृतिस्वरं भवति ।
उदा०-प्रथमश्चासौ वैयाकरण इति प्रथमवैयाकरणः, प्रथमवैयाकरण: । सम्प्रति व्याकरणमध्येतुं प्रवृत्तोऽभिनववैयाकरण इत्यर्थः ।
आर्यभाषाः अर्थः- (अचिरोपसम्पत्तौ) अचिर उपश्लेष = अभिनव अर्थ की प्रतीति में वर्तमान (प्रथम) प्रथम शब्द ( पूर्वपदम् ) पूर्वपद (अन्यतरस्याम्) विकल्प से (प्रकृत्या ) प्रकृतिस्वर से रहता है।
उदा० - प्रथ॒मवैयाकरण: । प्रथमवैयाकरण: । जिसने अभी व्याकरण अध्ययन प्रारम्भ किया है वह नया वैयाकरण ।
सिद्धि-प्र॒थ॒मवैयाकरणः। यहां प्रथम और वैयाकरण शब्दों का पूर्वापरप्रथमचरमजघन्यमध्यमध्यमवीराश्च' (२1१।५८ ) से कर्मधारयतत्पुरुष समास है । प्रथम शब्द में 'प्रथेरमच्' (उणा० ५। ३८) से 'अमच्' प्रत्यय है । प्रत्यय के चित् होने से 'चित:' (६ 1१।१५८) से अन्तोदात्त है। यह पूर्वपद अचिरोपसम्पत्ति अर्थ की प्रतीति में इस सूत्र प्रकृतिस्वर से रहता है। विकल्प पक्ष में 'समासस्य' (६ |१| २१७ ) से समास को अन्तोदात्त स्वर होता है-प्रथमवैयाकरण: ।
प्रकृतिस्वरविकल्पः
(५७) कतरकतमौ कर्मधारये । ५७ । प०वि०-कतर-कतमौ १ । २ कर्मधारये ७ । १ ।
स०-कतरश्च कतमश्च तौ कतरकतमौ (इतरेतरयोगद्वन्द्वः) । अनु०-प्रकृत्या, पूर्वपदम्, अन्यतरस्यामिति चानुवर्तते ।