________________
पाणिनीय-अष्टाध्यायी-प्रवचनम्
२६८
म॒हार्जाबाल: । एक ऋषिविशेष की संज्ञा । म॒हाभा॑रः । बहुत बोझ। म॒हाभरतः । इस नाम से लोकप्रसिद्ध ग्रन्थविशेष। म॒हाहैलिहिल: । बहुत बड़ा खिलाड़ी। म॒हारौरव: । घोर नरक । म॒हाप्र॑वृद्ध: । बहु बूढ़ा।
सिद्धि-म॒हाव्रीहिः। यहां महान् और व्रीहि शब्दों का 'सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानै:' ( २ 1१ 1६१) से कर्मधारयतत्पुरुष समास है। यहां 'लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्' इस परिभाषा से 'सन्महत्० ' (२ 1१ 1६१) में प्रतिपदोक्त समास का ही ग्रहण 'महत्' शब्द से ग्रहण किया जाता है । महत् शब्द 'वर्तमाने पृषद्वहन्महज्जगच्छतृवच्च' (उणा० २।८५) से अति-प्रत्ययान्त निपातित है, अतः प्रत्ययस्वर से अन्गेदात्त है। यह इस सूत्र से 'व्रीहि' शब्द उत्तरपद होने पर प्रकृतिस्वर से रहता है। ऐसे ही - म॒हाप॑राह्णः आदि ।
प्रकृतिस्वरः
(३६) क्षुल्लकश्च वैश्वदेवे | ३६ |
प०वि० - क्षुल्लक: १ । १ च अव्ययपदम्, वैश्वदेवे ७ ।१ ।
स० क्षुधं लातीति क्षुल्ल, ह्रस्वः क्षुल्ल:- क्षुल्लक: ( उपपदतत्पुरुषः) । अत्र ‘आतोऽनुपसर्गे कः' (३ । २ । ३) इति लाधातोः कः प्रत्ययः । 'तोर्लि' (८।४।५९) इति तकारस्य लकारः । ततश्च हस्वे' (५ |३ | ८६ ) इति ह्रस्वेऽर्थे तद्धितः कः प्रत्ययः । क्षुद्रपर्यायः क्षुल्लकशब्दः । अनु०-प्रकृत्या, पूर्वपदम्, महानिति चानुवर्तते । अन्वयः-वैश्वदेवे क्षुल्लको महाँश्च पूर्वपदं प्रकृत्या । अर्थ:-वैश्वदेवे उत्तरपदे क्षुल्लको महानिति च पूर्वपदं प्रकृतिस्वरं भवति ।
उदा०- (क्षुल्लक:) क्षुल्लकं च तद् वैश्वदेवमिति क्षुल्लकवैश्वदेवम् । ( महान्) महच्च तद् वैश्वदेवमिति म॒हावैश्वदेवम् ।
आर्यभाषाः अर्थ-(वैश्वदेवे) वैश्वदेव शब्द उत्तरपद होने पर (क्षुल्लकः) क्षुल्लक (च) और (महान्) महान् ( पूर्वपदम् ) पूर्वपद (प्रकृत्या ) प्रकृतिस्वर से रहते हैं।
उदा०-(क्षुल्लक) क्षुल्लकवैश्वदेवम् । लघु यज्ञविशेष। (महान्) म॒हावैश्वदेवम् । महान् यज्ञविशेष ।
सिद्धि- '') क्षुल्लकवैश्वदेवम् । यहां क्षुल्लक और वैश्वदेव शब्दों का विशेषणं विशेष्येण 'बहु म्' (२1१1५६ ) से कर्मधारयतत्पुरुष समास है । 'क्षुल्लक' शब्द में 'क्षुत्'