________________
२५१
षष्ठाध्यायस्य द्वितीयः पादः प्रकृतिस्वरः
(२५) श्रज्यावमकन्पापवत्सु भावे कर्मधारये ।२५।
प०वि०- श्र-ज्य-अवम-कन्-पापवत्सु ७।३ भावे ७१ कर्मधारये ७।१।
स०-श्रश्च ज्यश्च अवमश्च कन् च पापवाँश्च ते श्रज्यावमकन्पापवन्त:, तेषु-श्रव्यावमकन्पापवत्सु (इतरेतरयोगद्वन्द्व:) ।
अनु०-प्रकृत्या, पूर्वपदमिति चानुवर्तते। अन्वय:-कर्मधारये श्रज्यावमकन्पापवत्सु भावे पूर्वपदं प्रकृत्या।
अर्थ:-कर्मधारये समासे श्रज्यावमकन्पापवत्सु च शब्देषु उत्तरपदेषु भाववाचि पूर्वपदं प्रकृतिस्वरं भवति।
उदा०-(श्र:) गमनं च तच्छ्रेष्ठम्-गमनश्रेष्ठम्। गमनश्रेयः । (ज्य:) वचनं च तज्ज्येष्ठम्-वचनज्येष्ठम् । वचनज्याय: । (अवमम्) गमनं च तदवमम्-गमनावमम्। वचनावमम्। (कन्) गमनं च तत् कनिष्ठम्गमनकनिष्ठम् । गमनकनीयः। (पापवत्) गमनं च तत् पापिष्ठम्गमनपापिष्ठम् । गमनपापीयः।
आर्यभाषा: अर्थ-(कर्मधारये) कर्मधारय समास में (श्रज्या०) श्र, ज्य, अवम, कन् और पापबन् शब्दों के उत्तरद होने पर (भावे) भाववाची (पूर्वपदम्) पूर्वपद (प्रकृत्या) पकृतिस्वर से रहता है।
उदा०-(श्र) गमनश्रेष्ठम् । श्रेष्ठ बहुतों में प्रशस्य गमन (जाना)। गमनश्रेयः । श्रेय=दोनों में प्रशस्य गमन। (ज्य) वचनज्येष्ठम् । ज्येष्ठ=बहुतों में प्रशस्य वचन। वचनज्यायः । ज्याय: दोनों में प्रशस्य वचन। (अवम) गमनावमम् । तिरस्करणीय गमन। वचनावमम् । तिरस्करणीय वचन। (कन्) गमनकनिष्ठम् । कनिष्ठ-बहुतों में अल्प गमन । गमनकनीय: । कनीय दोनों में अल्प गमन। (पापवत्) गमनपापिष्ठम् । पापिष्ठ बहुतों में पापरूप गमन । गमनपापीय: । पापीय=दोनों में पापरूप गमन।।
सिद्धि-गमनश्रेष्ठम् । यहां गमन और श्रेष्ठ शब्दों का मयूरव्यंसकादयश्च' (२।१।७१) से कर्मधारय समास है। अत: गमन विशेष्य का समास में पूर्वनिपात है। 'गमन' शब्द ल्युट्-प्रत्ययान्त है, अत: प्रत्यय के लित् होने से लिति (६।१।१८७) से प्रत्यय से पूर्ववर्ती अच् उदात्त होता है। इस सूत्र से 'श्र' शब्द उत्तरपद परे होने पर यह भाववाची 'गमन' शब्द प्रकृतिस्वर से रहता है। ऐसे ही-वचनश्रेष्ठम् आदि।